पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतखण्डानि चकार । अन्यः कोऽपि समुन्नतवंशजो राजा सच्छत्रो राज्यं मा

       करोत्विति हेतोस्तेन राज्ञां सैन्यं शतधा खण्डितम् । नाशितमितिभावः ।
       अत्रोत्प्रेक्षालङ्कारः श्लेषानुप्राणितः ।
                              भाषा
           विक्रमाङ्कदेव ने निष्कण्टक एक छत्र श्रेष्ठ राज्य के लोभ से अर्थात् एक
       छत्र श्रेष्ठ राज्य की स्थापना करने के ध्येय से अन्य राजाओं के छत्रों को भिटा
       देने के लिये, उन्नत वासों से युक्त पर्वतों के समग्र वासों को अथवा उन्नत वंश
       में होने वाले राजाओं की सेना के, सौ टुकड़े कर डाले अर्थात् सेना को
       नष्ट कर दिया ।


         == गायन्ति स्म गृहीतगौडविजयस्तम्बेरमस्याहवे
                   तस्योन्मूलितकामरूपतृपतिप्राज्यप्रतापश्रियः ।
            भानुस्यन्दन-चक्रघोषमुषितप्रत्यूषनिद्रारसाः
                   पूर्वाद्रः कटकेषु सिद्धवनिताः प्रालेयशुद्धं यशः ॥७४॥ ==
                                अन्वयः
        प्राहवे गृहीतगौडविजयस्तम्बेरमस्य उन्मूलितकामरूपन्नृपतिप्राज्यश्रियः
        तस्य भानुस्यन्दनचक्रघोषमुषितप्रत्यूषनिद्रारसाः सिद्धवनिताः पूर्वाद्रेः
        कटकेषु प्रालेयशुद्धं यशः गायन्ति स्म ।
                                  व्याख्या
            आहवे संग्रामे ‘अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवः' इत्यमरः । गृहीताः
            स्वायत्तीकृता गौडस्य गौडदेशाधिपस्य विजये जये स्तम्बेरमा हस्तिनो येन