पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दूषणभाजनं समजनि । आधुनिकानामाङग्लेतिहासज्ञानां फ्रीमैनाभिधानः कोविदः परमप्रसिद्धः । उपन्यासप्रस्तुतायामितिहासविकृतौ रोषं प्रदर्शयता कृतिनाऽमु नाऽभिहितं—‘यूरोपदेशोद्भुते धर्मयुद्धयात्रायुगे (The age of the Crusades) ये किमपि ज्ञातुमीहन्ते तैः स्कॉटकृत ‘आइवान हो' (Ivanho) नाम उपन्यासो न पाठ्य इति । अत्राऽपि समाधानं पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ महाकविना चरितनायकस्य तत्तत्कार्यकालानां पौर्वापर्यविपर्ययोऽकारीति यद्दूषणमुपन्यस्तं तत्रेयं वार्ता-नेयं कृतिः प्राधान्येनेतिहासः प्रत्युत काव्यमेव । महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् । 'शृङ्गारवीरशान्तानामेकोङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो यथायथमङ्गरूपाणि रसान्तराणि च बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाश्रयित्वं द्योतितमेव । अत्र सत्स्वप्यलङ्कारान्तरेषु महाकविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त रन्याससमासोक्तिवृत्त्यनुप्रासादीन् बाहुल्येन लोवनगोचरीकरोति । यद्यपि स्वकृत्या कृतसहृदयहृदयसंवननः स चाऽयं महाकविर्बिल्हणः काश्मीरेषु प्राप्तजननस्तथाप्ययं कल्याण-चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठांवविक्रमादित्यस्य शासनं १०२६ तः ११२७ खृष्टाब्दपर्यन्तं स्थितम् । काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये खोनमुषनामकं ग्रामं महाकविरयं स्वजन्मनाऽलङकृतवान् । तत्र कौशिकगो त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽयं भूषितवान् । अस्य प्रपितामहो. मुक्तिकलशः पितामहो राजकलशः पिता च उज्येष्ठकलश: आसीत् । अस्य मातुनर्नाम नागादेवीति । अस्य ज्येष्ठम्राताइष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् ।