प्रस्तुतपुस्तकं महाकाव्यमिति पुरस्तादुपवर्णितमेव । अस्य नायकः खृष्टे कादशशताब्द्यां चालुक्यशाखाचतुष्टये कल्याण-चालुक्यवंशोद्भूतो वीरवरो विक्रमाङ्कदेवः । नायकलक्षणं यथा साहित्यदर्पणे त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ।। इत्थञ्च चरितप्रणेत्रा स्वनायकस्य पूर्वोक्तगुणगणालङकृतत्वं सम्पादनीयम् । एवञ्च नायकस्य भेदचतुष्टयमपि तत्रैव प्रदर्शितम् । यथा धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्यमुक्तः प्रथमश्चतुर्भेदः ।। इति । तत्र च प्रकृतनायको विक्रमाङ्कदेवो धीरोदात्त इतीयं वार्ता निम्नस्थलक्षणे नाऽवसीयते । तद्यथा अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः । । अविकत्थनो यथा गौडकामरूपकाञ्चीकेरलमलयचक्रकोटद्रविडादि-भूपालान्विजित्याऽपि क। ल्याणपुरं प्रत्यावर्तमानेन तेन विक्रमाङ्कदेवेन न कुत्राऽपि स्वमुखेन स्वपौरुषमुद्घो षितम् । प्रत्युत द्राविडेन्द्रदूतस्य समागमे तेन स्वपराक्रममधरीकृत्योक्तम् ईदृशीं सुजनतामजानता कार्मुकेण मुखरत्वमत्र मे । यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते । (५-५०) एवमेव-अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्तृत्तभूपपरितापगुरुः प्रतापः ।। (५-८६)
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६
दिखावट