पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<poem> उक्तरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा। स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः। (रघुवंश ३-४५} वचनमदः स्वप्रौढिप्रकर्षेणातिकामतीत्यत्र विदुषां नो विप्रतिपत्तिः । एवञ्वाऽत्रत्यं विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थितं रघुदिग्विजयवर्णनमनु- करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्याऽ त्राऽवस्त्तने पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम् दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गुहृते वारिधेः सलिलमेव वारिदाः । (५-५१ ) अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना “विललापे' ति प्रयोक्तव्यत्वे ‘ललापेति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसग्रीये चत्वारिंशत्तमे श्लोके “अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवॉ दूषणमिदं तस्य निरङ्र्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याऽश्वानामिदं जवसमुचितघावनानुरूपा किमिति कृता पृथुला न नाथ ! पृथ्वी । नभसि खुरपुटैरिति स्फुरद्विधिमिव ये स्म मुहुः प्रतिक्षिपत्नि । (६-४९) वर्णनं महाकविश्रीहर्षकृतमधोलिखितं नैषधाश्ववर्णनमतिशेते । प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वाहैर्निजवेगर्दीपितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति ? रथस्थितानां परिवर्तनारा परातनानामि नानाम् । वहनना