सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्वयः

 नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहारोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत ।

व्याख्या

 नरेन्द्रस्य नृपस्य पुत्रः सूनुस्तस्य कृते क्षितीशस्य पृथ्वीपतेः कान्तायाः प्रियायाः कुचावेव स्तनावेव कुम्भौ घटौ तयोस्सुरक्षितं सुनिहितं पयः दुग्धं विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलान्मिषेण विलासार्थधारितहारप्रोतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणां ‘मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायंती भूपदी तृणशून्यकम्’ इति वाचस्पतिः । वासस्सुगन्धस्तेन सहितं युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोपः । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणां स्थितिरिति भावः । अत्र सापन्हवोत्प्रेक्षालङ्कारः ।

भाषा

 राजपुत्र के लिये रानी के स्तनरूपी घड़ों में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियों के मिष से मानों सफेद बेले के फूलों की सुगन्ध से सुगन्धित किया गया था ।

मृगीदृशः श्यामलचूचुकच्छलात् कुचद्वये भूपसुतोपयोगिनि ।
प्रभावसंक्रान्तरसायनौषधी-दलद्वयं नीलमिव व्यराजतं ॥६६॥

अन्वयः

 मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलम्।