पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या यस्मिन्नगरे पुरन्ध्रीणां पतिव्रतास्त्रीणां 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । गण्डस्थलस्य कपोलस्थलस्य कान्तीनां रुचीनां संपदा समूहेन कातरं हतप्रभं रश्मिमण्डलं किरणजालं यस्य सः “किरणप्रप्रहौं रश्मी त्यमरः । क्षपाकरश्चन्द्रः ‘नक्षत्रेशः क्षपाकरः' इत्यमरः । विकीर्णः पतितः संमार्जनस्य गृहसंमार्जनस्य भस्मरेणुधूलिर्यस्मिन्स तेन मुकुरेण दर्पणेन ‘दर्पणे मुकुरादशाँ' इत्यमरः । सह तुल्यतां समानतां बिभर्ति धारयति । उपमा- लक्ङारः।

                                 भाषा

जिस नगर में सती स्त्रियों के कपोलस्थल की कान्ति के आधिक्य से हनप्रभ किरण समूह वाला चन्द्रमा, झाडू देने में उड़ी हूई धूली के कणों से आच्छादित ऐने के समान दिखाई देता था । विलासदोलायितदन्तपत्रयोः क्षपासु यत्रेन्दुरलश्यमरग्डलः। प्रविश्य संक्रान्तिमिषेरग योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥

                                अन्वयः

यत्र क्षपासु संक्रान्तिमिषेण प्रविश्य विलासदोलायितद्न्तपत्रयोः योषितां कपोलयोः अलक्ष्यमण्डलः इन्दुः कान्तिजलं विलुम्पति ।

                                व्याख्या

यत्र पुरे क्षपासु रात्रिषु विलासे स्बैरक्रीडायां दोलायिते दोलावदाचरिते पुरःपश्चाद्गतागते दन्तपत्रे ताटक्ङौ ययोस्तयोर्योषितां नारीणां ‘स्त्रीयोषिदबला

  • =* 2ि ==ी = प्रr.' ==ाग• । कोलोरावश्यलो 2ाविता