पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यर्थिपृथ्वीपतिचिन्त्यमानो न कोऽपि मन्त्रः प्रतिबन्धकोऽभूत् ।११७।

                    अन्वयः

अनर्गले यद्भुजशौर्यवन्हौ अशेषं प्रतियोगिवर्गं दहति(सति) प्रत्यर्थि- पृथ्वीपतिचिन्त्यमानः कः अपि मन्त्रः प्रतिबन्धकः न अभूत् ।

                    व्याख्या

नास्त्यर्गलं प्रतिबन्धकं यस्मिन्तस्मिन् यस्य राज्ञो भुजस्य शौर्यरूपाग्नौ वीर्यरूपवन्हावशेषं समग्रं प्रतियोगिवर्गं शत्रुसमूहं दहति भस्मसाद्भवति सति प्रत्यर्थिपृथ्वीपतिभिः शत्रुभूतराजभिश्चिन्त्यमानो विचार्यमाणः स्मृतः कोऽपि मन्त्रः काऽपि मन्त्रशक्तिः ‘षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः' इत्यमरः । वन्हिशामकमन्त्रश्च यथा-उत्तरस्मिश्च दिग्भागे मरीचो नाम राक्षसः । तस्य मूत्रपुरीषाभ्यां हुतस्तभ्भः प्रजायते' । प्रतिबन्धकः प्रतिरोधको नाऽभूत् । मन्त्रेण वन्हिः प्रतिबध्यते मन्त्रशक्त्या च राज्यं रक्ष्यते । भुजशौर्ये वन्हित्वारोपाद्रूपकम् । शौर्यव्यवहारे वन्हिव्यवहारस्याऽप्यभेदप्रतिपत्तिः ।

                     भाषा

जिस राजा की अप्रतिहत भुजबल रूपी अग्नि में सब शत्रुओं के जलते रहने पर अर्थात् उसके भुजबल से शत्रुओं का नाश होते रहने पर, विपक्षी राजाओं द्वारा प्रयुक्त षाड्गुण्यादि उपाय या “उत्तरस्मॅिश्चदिग्भागे मरीचो नाम राक्षसः । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भः प्रजायते" सदृश अग्निस्तम्भक मन्त्र उस अग्नि का शामक न हुवा । अर्थात् उस राजाको विपक्षी राजाओं को परास्त करते रहने से रोकने में विपक्षियों का कोई उपाय सफल न हुआ ।

ब्रमस्तस्य किमस्त्रकौशलविधौ देवस्य विक्रामतः