पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- *** -- ९'। क्रा सौभाग्य ही अप्राप्य हो जाता है । कर्ण राजा के ऐसे प्रतापी राजा के मर जाने से कीर्ति कहाँ से आ सकती है) ।

यस्यासिरत्युच्छलता रराज धाराजलेनेव रणेषु धाम्ना । दृप्तारिमातङ्गसहस्रसङ्गामभ्युच्य गृहन्निब वैरिलच्मीम् ॥१०४॥

                               अन्वयः
      यस्य  असिः रणेषु अत्युच्छलता धाराजलेन इव धाम्ना दृप्तारिमातङ्गः

सहस्रसङ्गां वैरिलक्ष्मीम् अभ्युक्ष्य गृहन् इव रराज ।

                              व्याख्या 
   यस्य  भूपतेरसिः खङ्गो रणेषु युद्धेष्वत्युच्छलतोध्र्व गच्छता धाराजलेन खड्ग-

धाराजलेनेव धाम्ना तेजसा, दृप्ता मदान्धा अरिमातङ्गाः शत्रुहस्तिनो विपक्ष- चाण्डालाश्च तेषां सहस्र तस्य सङ्गः संसगर्यो यस्याः सा तां वैरिलक्ष्मीं शत्रुश्रिय मभ्युक्ष्य प्रक्षाल्य ‘उक्ष सेचने' इत्यस्माद्धातोरभ्युपसर्गाल्ल्यप्यभुक्ष्येतिनिष्पन्नम् ।' गृह्णन्निवाऽऽसादयन्निव रराज शुशुभे । यथा चाण्डालसङ्गादशुद्ध वस्तु जलेन संप्रोक्ष्य शुद्धं विधाय गृह्यते तथैवाऽत्राऽपि मातङ्गसहस्रसंगजनिताशुद्धियुक्ता वैरिलक्ष्मी धाराजलेन पवित्रीकृत्य गृहीता । धाराजलेन सह धाम्नस्सादृश्यप्रती तिरित्युपमा । मातङ्गशब्देन गजानां चाण्डालनाञ्चप्रतीत्या श्लेषोऽलङ्कारः । खड्ग बैरिलक्ष्मीकर्मकग्रहणक्रियाया उत्प्रेक्षणादुत्प्रेक्षा । अतस्तेषां सङ्करः ।

                                भाषा 
   जिस  राजा की तलवार, यद्धों में ऊपर उठने वाले अपनी धार के जल के

समान तेज से मदोन्मत्त हजारों शत्रुरूपी हाथियों के अथवा हजारों शत्रु चाण्डालों के संसर्ग दोष से अपवित्र शत्रओों की लक्ष्मी का मानों प्रोक्षण कर