पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ४ ] विक्रमाङ्कदेवचरितम् ।

पालैर्दिव्यमवागृह्णन्मण्डल भ्रमणोद्यताः ।
अयोग्यतां साधयितुं तस्य सेना तुरंगमाः ॥ १०३ ॥
स जात जातुष मेने मन्ये नरपतिश्रियम् ।
एतद्द्लनमीत्येव क्षात्रं तेजो यदत्यजत् ॥ १०४ ॥
जातास्वादः स्वयं लक्ष्म्याः पिशाच्या इष चुम्बनात् ।
रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष सः ॥ १०५ ॥
उद्भूतचामरोद्दामसमीरसङ्गिनेव सः ।
रजसा पूर्यमाणोभून्मार्ग द्रष्टुमनीश्वरः ॥ १०६ ॥
तेजोनिधीनां रत्नानां संभारं धारयन्नपि ।
बभूव देवोपडतस्तमः स्तोमैस्तिरोहितः || १०७ ॥
उपरि प्रतिबन्धेन ध्यात्येव नमतोखिलान् ।
अधोगमनमेवासौ विकलो बहमन्यत ॥ १०८ ॥
पिशाच इव सर्वेषां छलान्वेषणतत्परः |
नासौ किमपि कर्तव्यं विवेद मदमूर्छया || १०९ ।।
व्यरज्यत समस्तोपि लोभैकवसतेर्जनः ।
त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥ ११० ॥
अकार्येपि कुमारस्य तात्पर्यमतनोदतौ ।
कि लक्ष्मीसुखमुग्धानामसंभाव्यं दुरात्मनाम् ॥ १११ ॥ .
भ्रमयन्नङ्कुशं दर्पाविषेन्द्रमधिरुह्य सः ।
आख्यातिवीजवापाय चखानेव नमःस्थलीम् ॥ ११२ ॥
बहुना कि प्रलापेन तथा राज्यं चकार सः ।
यथेन्दुमित्रे चालुक्यगोत्रे प्राप कलङ्कृताम् ॥ ११३ ॥
न शशाक निराकर्तुमयजस्य दुराग्रहम् ।

● IV. 105. दूलभी Ms. – IV. 106. समीराः स● Ms.