सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[स
विक्रमाङ्कदेवचरितम् ।

मेने सेनापवित्रेव पित्रा विरहिता पुरी ॥ ९१ ॥
युगलकम् ॥ अग्रे समागतेनाथ मानितः सोग्रजन्मना ।

सह तेनैव सक्लेशं विवेश नृपमन्दिरम् ॥ ९२ ॥

अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः |
वाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥ ९३ ॥

क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्त्रेहवृत्तिभिः ।
केपि कैतववाह्याभिरत्यबाह्यन्त वासराः ॥ ९४ ॥

ज्येष्ठ गुणैर्गरिष्ठोपि पितुस्तुल्यममंस्त सः ।
महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥ ९५ ॥

स दिग्वलयमालोड्य वस्तुजातमुपार्जितम् ।
तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥ ९६ ॥

जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः ।
एषा भगवती केन भज्यते भवितव्यता ॥ ९७ ॥

मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम् ।
न विवेद परिभ्रष्टं यदशेषं यशोंशुकम् ॥ ९८ ॥

बाधिर्यमिव मङ्गल्यतूर्यध्वनिभिरागतः ।
ईषदप्येष नाश्रौषीतृचनानि महात्मनाम् ॥ ९९ ॥

कुर्वनङ्गेषु वैव्यमाविष्कृतमदज्वरः ।
स निनाय श्रियं राजा राजयक्ष्मेष संक्षयम् ॥ १००॥

अपारतकुन्तलोल्लासा वैराग्यं दधती धरा ।.
जीवत्येव घवे तस्मिन्विधवेव व्यराजत ॥ १०१ ॥

चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते ।
अभ्युक्षणमिवोदस्तहस्तशीकरवारिभिः ॥ १०२ ॥

______________________________________________________________________________________________________________________________________
 IV. 93.॰द्वारा॰ Ms.