सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६ विक्रमाङ्कदेवचरितम् [स.२

नृपं कठोरव्रतचर्यया कृशं समाहिता सा नरनाथसुन्दरी |
निशातशाणोल्लिखितं समन्वगात्प्रभेव माणिक्यमतीव निर्मला ॥ ४६ ॥
मृगाङ्कचूडस्य किरीटनिम्नगातरंगवातैरिव वारितश्रमा |
उपाचरत्सम्यगसौ नराधियं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥ ४७ ॥
तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य श्वेतसः ।
तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयतिस्म पार्थिवः ॥ ४८ ॥
इति क्षितीन्द्रश्चिरमिन्दुशेखरप्रसादनाय व्रतमुग्रमाश्रितः ।
कदाचिदाकर्णयतिस्म भारत प्रभातपूजासमये नमश्चरीम् ॥ ४९ ॥
अलं चुलुक्याक्षतिपालमण्डन श्रमेण विश्राम्यतु कर्कशं तपः ।
कमध्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥ ५० ॥
इयं त्वदीया दयिता भविष्यति क्षितीन्द्रपुत्रत्रितयस्य भाजनम् ।
चुलुक्यवंशः शुचितां यदूर्जितैर्यशोभिरायास्यति मौक्तिकैरिव ॥ ५१ ॥
निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः ।
दिलीप मान्वातृमुखादिपार्थिवप्रथामतिक्रम्य विशेषमेष्यति ॥ ५२ ॥
सुतद्वयं ते निजकर्मसंभवं मम प्रसादात्तनयस्तु मध्यमः ।
पथोनिधेः पारगतामपि श्रियं स दोर्बलाग्राम इवाहारष्यति ॥ ५३ ॥
गिरं निपीय श्रुतिशुक्तिमागतां सुधामिव व्योमपयोनिधोरेति ।
उदङ्चिरोमाङ्चतया समं ततः स शैत्यसंपर्कमिव न्यवेदयत् ॥ ५४ ॥
उदञ्चदानन्दजलपुतेक्षणस्ततः प्रमोदालसलोचनोत्पलाम् ।
स वल्लभामन्यपुरंध्रिदुर्लभैर्गुणैरुपेतां गुणधानतोषयत् ॥ ५५ ॥
शनैर्विधाय व्रतपारणाविधिं धनैः कृतार्थीकृतविप्रमण्डलः ।
अखण्डसौभाग्यावेलासया पुनस्तया समं राज्यमुखेष्वरज्यत ॥ ५६ ॥
क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसंनिभः |


 II. 49. शेषर Ms. -II. 50. कर्केसं Ms.