अवाप्य संपादितमांसलोत्सवः परामगान्निर्वृतिमीश्वरः क्षितेः ॥ ५७ ॥
स सोमवनेत्रचकोरपारणां चकार गोत्रस्य यदुज्ज्वलाननः ।
यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नादमिधानमाप्तवान् ॥ ५८ ॥
अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्त्रं गिरमुद्रतां दिवः |
द्वितीयगर्मार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ॥ ५९ ॥
स्थितस्य गर्मे प्रभयेव कस्यचिदिलिप्यमानां स्फटिकामलत्विषः ।
स गण्डपालीं विशदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥ ६० ॥
स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च ।
हरप्रसादांचितसूनुलालसश्चकार किंकिं न नरेन्द्रचन्द्रमाः ॥ ६१ ॥
उवाह धौतां क्षितिपालवल्लभा सुधाप्रवाहैरिव देहकन्दलीम् ।
विषादपङ्कक्षयतः क्षमापतेर्निरन्तरं तु प्रससाद मानसम् ॥ ६२ ॥
निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा ।
यदुत्पलश्यामलमाननं तयोः सलाञ्छनच्छायमिव ध्यराजत ॥ ६३ ॥
नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं क्षीरमिषेण बिभ्रतोः ।
हिमोपचारार्पितमार्द्रचन्दनं श्रियं दधे गालनशुभ्रवाससः ॥ ६४ ॥
नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः ।
विलासहारोज्ज्वलमौक्तिकच्छलात्समल्लिकावासमिव व्यधीयत ॥ ६५ ॥
मृगीदृशः श्यामलचूचुकच्छलात्कुचद्वये भूपसुतोपयोगिनि ।
प्रभावसंक्रान्तरसायनौषधीदलहूयं नीलमिव व्यराजत ॥ ६६ ॥
निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्र्यमसौ सहिष्यते ।
न येन मध्यस्थमपि व्यषह्यत स्थितेन गर्भे नरनाथयोषितः ॥ ६७ ॥
बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोपि वर्तते ।
इतीव गर्भः क्षितियालयोषितः शशंस भञ्जन्नुदरे वलिस्थितिम् ॥ ६८ ॥