पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

warten und N


विक्रमाङ्कदेवचरितम् | [सं० २

अलनीयस्य निकाममुन्नतेर्दिशन्ति वमस्य यशस्तु दुर्जनाः ॥२२
निशास यत्रोन्नत सौध संगति विगाहमानस्य विषोः कुरङ्गकः ।
वतंसदूर्वाङ्कुरमेणचक्षुषां ग्रहीतुमाका इति वक्रकंधरः ॥ २३ ॥
अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् ।
गृहेगृहे यत्र विचित्रमन्त्रहं वितन्यते नृत्तमधीरलोचनाः ॥ २४ ॥
अमुष्य लोकत्रितया तैर्गुणैरतीत्य मार्ग मनसोषि तिष्ठतः ।
असो सदा मानसगोचरस्थिता कथं तुलायामलका प्रगल्भते ॥२५७
विजित्य सर्वाः ककुभः स भार्गवप्रचण्डकोदण्डपरिश्रमो नृपः ।
उवास तत्रार्थिशताने पूरयन्फलं हि पात्रप्रतिपादनं श्रियः ॥ २६
जगत्यनर्घेषु समस्तवस्तुषु क्षितीश्वरः पादतले स्थितेष्वपि ।
अभूद्विना पुत्र मुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥ २७ ॥
उवाच कण्ठागतवाष्पग गदैः पदैः कदाचित्सहधर्मचारिणीम् ।
सरस्वतीहारलतामिवोज्ज्वलां प्रकाशयन्दन्तमयूखचन्द्रिकाम् ॥२८॥
फलेन शून्यः सुतरां दुनोति मामयं गृहस्थाश्रमधर्मपादयः ।
बिलोकयामि प्रतिबिम्बमात्मनः सुताभिधानं त्वयि नाधुनापि यत् ॥ २९
अलक्षणं बालमृगाक्षि मृग्यते न किंचिदङ्गेषु तवेदृशः परम् ।
पुराकृतः पुण्यविपर्ययो मम ध्रुवं फलाद्वैप्रतिबन्धकस्त्वयि ॥ ३० ॥
अवोक्षमाणा सदृशं गुणैर्मम क्रमागता श्रीरियमाश्रयं पुरः |
पयोधिमध्यस्थितपोत कूपकस्थिता शकुन्तीष मुहुः प्रकम्पते ॥ ३१
प्रियप्रसादेन विलाससंपदा तथा न भूषाविभवेन गेहिनी ।
सुतेन निर्याजमली कहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥ ३२ ॥
वहन्ति हिंस्राः पशवः कमात्मनो गुणं वितर्यात्मजरक्षणश्रमम् ।
पदार्थसामर्थ्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरें मनः ॥ ३३
किमश्वमेध प्रभृतिक्रिया क्रमैः सुतोस्ति चेन्नोभयलोकबान्धवः ।