स० २.]
१३
विक्रमाङ्कदेवचरितम् ।
करोति गण्डस्थलचन्द्रमण्डले विलासवेल्लन्मणिकुण्डलातिथौ । न यत्र वित्रस्तकुरङ्गचक्षुषां निघर्षभीत्यव पदं कुरङ्गकः ॥ १२ ॥ समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुंभै: सुरसद्ममूर्धगैः । प्रपा पिपासापरितापशान्तये नमश्चरीणामिव येन निर्मिता ॥ १३ ॥ जगत्तयीकार्मणकर्मणि क्षमं निरीक्ष्य लीलायितमेणचक्षुषाम् । स्मरेण यत्र स्मरता पराभवं भवाय भूयः परिबोध्यते धनुः ॥ १४ ॥ स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूह समूहनिःस्त्रनाः । भवन्ति यत्र क्षणमात्रविश्रमप्रदायिनः कण्ठरवेषु योषिताम् ॥ १५ ॥ निराकृते यत्र रुषां समुद्गमे भुजंगसौभाग्यगुणेन सुभ्रुवाम् । वनान्तपुंस्कोकिलपञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ॥ १६ ॥ प्रविश्य यद्वेश्मसु रोहिणीपतिर्गुणं महान्तं लभते न संशयः । यदेष राहोरुपयात्यलक्ष्यतां पुरंधिवक्तेन्दुसहस्रमध्यगः ॥ १७ ॥ यदीयसौधध्वजपट्टपट्टिका: समुञ्चलन्मौक्तिककान्तिनिर्झरै: । नभस्तलान्दोलनविभ्रमाहृतं विनिक्षिपन्तीव सुरापगावयः ॥ १८ ॥ अविस्मृतम्यम्बकनेत्रपावकः स्मर: स्मितेन्दीवरदीर्घचक्षुषाम् । विलासपीयूषनिधानकुम्भयोर्न यत्र वासं कुचयोर्विमुञ्चति ॥ १९ ॥ स्मरस्य यत्राद्भुतमस्त्रकौशलं तथा ह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्चमित्रतां शिलाकठोराणि मनांसि विध्यति ॥ २० ॥ समुद्रवेलारतिरत्नसंपदा वधूतडित्ताण्डवमेघमण्डली । नभःस्थली विभ्रमतारकस्त्रजा विभाति यत्र स्मरतल्पकल्पना ॥२१॥ त्यजन्ति हंसा: सरसीगुणैः स्थिति न यत्र वर्षास्वपि हर्षगद्गदा ।
|
II. 15. दाव्यूह or भ्यूई Ms. II. 17. "व्यलंकृत Ms. II. 19. यासं om. Ms.; but compare X. 46. 11. 21. समुद्राने ● ● संपद।● खजो Ms.