न सारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥ २१ ॥
रसव्यनेरध्व ये चरन्ति संक्रान्तचक्रोक्तिरहस्यमुद्राः ।
तेस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ २२ ॥
अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् |
ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षमन्ते ॥ २३ ॥
अलौकिकोल्लेखसमर्पणेन विदग्धचेतःकषपट्टिकासु ।
परीक्षितं काव्यसुवर्णमेतल्लोकस्य कण्ठाभरणत्वमेतु ॥ २४ ॥
किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण ।
किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥ २५ ॥
पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि ।
भूपाः कियन्तो न बभूवुरुर्व्या जानाति नामापि न कोपि तेषाम् ॥ २६ ॥
लङ्कापतेः संकुचितं यशो यद्यत्कीर्तिपात्रं रघुराजपुत्रः ।
सर्व एवादिकः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रे: ॥ २७ ॥
गिरां प्रवृत्तिर्मम नीरसापि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृदमश्वसिन्धुसंबन्धिनीं मूर्धनि धारयन्ति ॥ २८ ॥
कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् ।
निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥ २९ ॥
एषास्तु चालुक्यनरेन्द्रवंशसमुद्रतानां गुणमौक्तिकानाम् ।
मद्भारतीसूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥ ३० ॥
लोकेषु सप्तस्वपि विश्रुतोसौ सरस्वतीविभ्रमभूः स्वयंभूः ।
चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चतस्त्रः ॥ ३१ ॥
एकस्य सेवातिशयेन शङ्के पङ्केरुहस्यासनतां गतस्य ।