पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ विक्रमाङ्कदेवचरितम् ॥

भुजप्रमादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः ।
यः पाञ्चजन्यप्रतिबिम्बभङ्गया धाराम्भस: फेनमिव व्यक्ति ॥ १ ॥
श्रीधानि दुग्धोदधिपुण्डरीके यश्चञ्चकतिमातनोति ।
नीलोत्पलश्यामलदेहकान्तिः स वोस्तु भूत्यै भगवान्मुकुन्दः ॥ २ ॥
वृक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडन्यजस्य |
श्रियोङ्गरामेण विभाध्यते या सौभाग्यहेनः कपट्टिके ॥ ३ ॥
एकः स्तनस्तु ङ्गतरः परस्य वार्त्तामिव प्रष्टुमगान्मुखाग्रम् ।
यस्याः प्रियार्धस्थितिमुद्द्दन्त्याः सा पातु वः पर्वतराजपुत्री ॥ ४ ॥
सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः ।
कुन्भजस्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः ॥ ५ ॥
पार्श्वस्थपृथ्वीधरराज कन्याप्रकोप विस्फू जिसकातरस्य |
नमोस्तु ते मातरिति प्रणामाः शिवस्य संध्याविषया जयन्ति ॥ ६ ॥
यचांसि वाचस्पतिमत्सरेण साराणि लडधुं ग्रहमण्डलीय |
मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः ॥ ७ ॥
अशेषाधिनप्रतिषेधदक्षमन्त्राक्षतानामिव दिनखेषु ।
विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिमाननस्य ॥ ८ ॥
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः ।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ ९ ॥

$4, I. 6. पार्श्वपृथ्वी Ms.