॥ अथ विक्रमाङ्कदेवचरितम् ॥
भुजप्रमादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बभङ्गया धाराम्भसः फेनमिव व्यनक्ति ॥ १ ॥ श्रीधाम्रि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमासनोति । नीलोत्पलश्यामलदेहकान्तिः स वोस्तु भूत्यै भगवान्मुकुन्दः ॥ २ ॥ वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य । श्रियोङ्गरागेण विभाव्यते या सौभाग्यहेम्न: कषपट्टिकेव ॥ ३ ॥ एकः स्तनस्तुङ्गतरः परस्य वार्त्तामिव प्रष्टुमगान्मुखाग्रम् । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ ४ ॥ सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजस्त्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः ॥ ५ ॥ पार्श्वस्थपृथ्वीधरराजकन्याप्रकोपविस्फूर्जितकातरस्य । नमोस्तु ते मातरिति प्रणामाः शिवस्य संध्याविषया जयन्ति ॥ ६ ॥ वचांसि वाचस्पतिमत्सरेण साराणि लब्धुं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः ॥ ७ ॥ अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिङ्मुखेषु । विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिमाननस्य ॥ ८ ॥ अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ ९ ॥
|
I. 6. पार्श्वपृथ्वी Ms.