पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १३] विक्रमाङ्कदेवचरितम् । ११९

विधाय कोलाहलमूर्मिभिमुधा किमित्यनाकर्णितकेन गच्छसि ।
उपार्जित स्त्रीवधपापसंपदः कथं पयोधिस्तव सङ्गमेष्यति ॥ ७९ ॥
नयस्थ पारं पुलिनद्वयानुगां तरंगदोलामाघरोष्य मामितः |
प्रसीद यावत्र निशा विशोर्य ते यशांसि ते गायतु पांसुलाजनः ||८० ॥
सहस्स्रशः कृष्णनिशास्वहं गता पदं राव न्यस्य शिरस्यवारिता |
समृद्धेिगर्येण किमन्धतां मुधा दधासि नन्वस्ति वनात्ययः पुनः ॥ ८१॥
परिस्खलद्वीचिदुकूलपलवा बलात्समुद्राभिमुखी प्रधावसि ।
करोषि चान्यासु निषेधमित्यहो स्वयं विमूढासि पररासु पण्डित ॥ ८२ ॥
नितम्ब पर्यन्तगलज्जलांशुका समुत्सुका किं कुटिले प्रधावसि ।
कुलापगान्तः पुरवक्कचुम्बिनो न लप्स्यसे दास्यमपि त्वमम्बुधेः ॥८३||
मया कुमार्यापि न सुप्तमेकया न जारमुत्सृज्य पुमान्विलोकितः |
अनेन गोत्रस्थितिपालनेन में प्रसन्नतामत्य अषोपकारिणी ॥ ८४ ॥
इति स्मरातः प्रमदाजनोधुना निशासु कान्तानभिसमुद्यतः ।
न वक्ति कोपात्कतरां तरंगिणीमनङ्गशृङ्गारसमुद्रवाहिनि ॥ ८५ ॥
अविरलजलधाराधोरणोधीतवस्त्राः
सपदि मदनहस्तन्यस्तहस्तास्तरुण्यः |
किमपि न गणयन्ति प्राणनाथाङ्काली-
रमसपुलकिताङ्ग्यः पङ्किलासु स्थलीषु ॥ ८६ ॥
यः स्पर्धामद्धान्मृदङ्ग निनदैः सौदामिनीताण्डवे
यः कोदण्डममर्त्य भर्तुरकरोकारशङ्कास्पदम् ।
मत्तैरायणकण्ठगर्भबिल ठगम्भीरगजघनः
सोयं व्योमाने घूर्णत विरहिणीघाताय मेघव्यानेः ॥ ८७ ॥

XIII. 65. After 85 the Ms, insorts सरिदुपालम्भ कुलकम