सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
[स॰ १३
विक्रमाङ्कदेवचरितम् ।

समागतप्राणसमा करोति का न ते सपर्याविधिमध्यगाङ्गना ।

पुनः प्रियस्याः किमतः परेण वा धन त्वमेवाशुकविर्भवोपरि॥६८॥
वियोगिनां संघटने भवत्समः परोस्ति जीमूत न दूतकर्माणि ।
वदन्ति नान्यैः सह याः कुलस्त्रियो ध्रुवं तदर्थं वहसि क्षणप्रभाम्॥६९॥
विमुक्तवेणीवलयाः पुरंधयः प्रियाङ्कपाली परिवासशीतलाः ।
अनङ्ग-साम्राज्याविलासमन्त्रिणः प्रभावमम्मोद निवेदयन्ति ते ॥ ७० ॥
स्मरातुराणां विदधासि दुर्दिनं प्रियाभिसाराय कुरङ्गचक्षुषाम् ।
रतोत्सवे काण्डपटत्वमेषि च त्वमग्रणीर्मेध परोपकारिणाम् ॥७१॥
विभातवर्गे जलद त्वमग्रणीनं चन्द्रिकापि द्युतिमेति तावकीम् ।
करोषि किं शुभ्रतया तदीयया न सुन्दरं चन्दनमेणनाभितः ॥ ७२ ॥
करोति चैत्रः सह चन्दनानिलैः किमिन्दुना कोकिलपञ्चमेन च ।
न विद्यते जेतुरनङ्गभूपतेः किमन्यदेकाङ्गभटस्त्वया समः ॥ ७३ ॥
पयोद यासां भवतोपि दर्शनान्न वल्लभः संघटते मृगीदृशाम् ।
न ताः क्रियन्ते गणनासु दुर्भगाः करोति कश्चित्रमजातभित्तिषु ॥ ७४॥
समागते प्रेयसि चाटुकारितामितस्मितक्षालितपाटलाधराः ।
भजन्ति काश्चिद्विमलेन चेतसा विलासमीलन्नयनाः पयोमुचः ॥ ७५॥
अलब्धरत्नाकरसंगमामृता तथा गता ग्रीष्मदिनेषु तानवम् ।
अदृष्टदुःखेव सखि प्रयासि मे कुत: मियालिङ्गनमङ्गहेतुताम् ॥७६॥
मुहूर्तमामीलितमूर्तिरम्बरे विगाहसे फालविलङ्घनीयताम् ।
सलीलमुत्तीर्यं भवन्ति पांमुलाः समुल्लसन्मांसलकान्तकेलयः ॥७७॥
घटं समारुह्य विघट्टितोर्मयः प्रयान्ति ते पारमवारिताः पराः ।
अपुण्यवत्याः पुनरेष मे गतिं भिनत्ति नावापि नितम्बडम्बरः ॥७८॥


XIII. 68. या न ते Ms. - XIII. 72 विभाववर्गे Ms. --XIII. 75. After vs. 75 Ms. inserts मेघस्तुतिकुलकम्.