पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ विक्रमाङ्कदेवचरितम् । [स' १०

छायाखण्डनमण्डनव्यपगमाहात्रेषु
चित्रा लिपिः ॥ ११ ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमछदे-
वविद्यापतिकाश्मीर कमट्टश्रीबिल्हणविरचिते दशमः सर्गः ॥
खानशेषघुसृणास्णमासां स्पर्शनादिव नरेन्द्रवधूनाम् ।
प्राप रहिमपटली दिनभर्तुः पाटलत्वमथ संघटमाना ॥ १ ॥
कण्टकैरिव विदारितपादः पद्मिनी परिचितैरपराः ।
आरोह सरसोरुह बन्धुः स्कन्धमम्बुधितटागमनाय ॥ ३ ॥
मज्जतः पयासे पश्चिमसिन्धों: स्निग्धमम्बरतलं परिरभ्य |
भास्वतस्तुषवियुक्त मसूरक्षोदपाटलमलक्ष्यत धाम ॥ ३ ॥
प्रार्थनार्थमिव रत्नरुचीनां आनुरधि मगमगत कान्तिः ।
सत्त्वमुन्नतपदात्पतितानां विद्यते न महतामापे नूनम् ॥ ४ ॥
चञ्चपुगृहीत मृणालन्धसूत्रनिवदेन रथाङ्गः ।
धिप्रयोगभयती दयितायाः कण्ठपाशमिव कर्तुमियेष ॥ ५ ॥
क्रन्दातेस्म न विवेद मृणाल चञ्चसंपुटगतां लुठतिस्म ।
वल्लभाविरहहालहलेन व्याकुलः किमकरोन्न रथाङ्गः ॥ ६ ॥
दीर्घपादपशिखासु गिरीणां मस्तकेषु शिखरेषु गृहाणाम् ।
दग्धकालवशतः शतखण्डं धाम घण्डकिरणस्य बभूव ॥ ७ ॥
वासवस्तुरगरत्नममुष्मात्याप दास्यति ममापि कदाचित्
भाशयेति जलराशि लयासीद्धानुरश्वपरिवर्तधियेव ॥ ८ ॥
मानुमानपर दिग्वनितायाश्चुम्बतिस्म मुखमुद्गतरागः |
पद्मिनी किम करोतु बराकी मीलिताम्बुरुहनेत्रपुटाभूत् ॥ ९ ॥
वाजिनां गगनलङ्घन खेदच्छेदनाय मदिरामित्र दातुम् ।