पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स. ९] विक्रमाङ्कदेवरितम् |

समत्वमेतेन कथं लभन्ते जगत्तयोगौरवभाजनेन ॥ १४३ ॥
मुज्जस्य गुञ्जासमतापि नास्ति का योग्यता भोजमहीभुजश्च ।
लब्धे कवीन्द्रैः कविबान्धवेस्मिन्दासीकृता पादतलेषु लक्ष्मीः ॥ १४४॥
विहाय वक्काणि मृगेक्षणानां सविश्वमव्युगताण्डवानि ।
अस्यान्यतः साहसलाञ्छनस्य न भीतिमुद्रामुकुलं मनोभूत् ॥ १४५ ॥
निवेश्यतां किंनरकण्ठि कण्ठे मालास्य दोर्बन्धविलासदूती ।
कोर्तिर्विघेरस्तु समानयोगात्कामस्य कामं फलतु प्रयासः ॥ १४६॥
लज्जानिरासे निममात्रकेण वाक्येन तेन प्रतिहाररक्ष्याः ।
पतिंवरा संवरणस्रजं तां श्रीविक्रमाङ्कस्य चकार कण्ठे ॥ १४७ ॥
तथा स्रजा कण्ठनिवेशभाजा मत्तालिमालाकलझांकृतेन ।
भवाद्य तेवा खिलभूमिपाल
सौभाग्यलीलाजय डिण्डिमोस्य ॥ १४८ ॥
तडाहुलेखे कुसुमस्रजोपि सौभाग्यशोभान्वयमन्त्रभूताम् ।
कण्ठस्थितायामपि येन तस्यां देवस्त दालिङ्गनसत्वरोमूत् ॥.१४९ ॥
जयति कुसुमकेतोश्चापविद्यारहस्यं
विधिरुचितविधायी सांप्रतं वन्दनीयः |
उदचरदिति वाणी तत्र पौराङ्गनाना-
मिह हि सदृशयोगः कस्य न प्रीतिहेतुः ॥ १५० ॥
८५


अथ मृदुलमृदङ्गश्वानमारुह्य ध्या
सह परिणययोग्यं मण्डपं पाण्डुकीर्तिः ।
निखिल नृपसिलक्ष्म्या रागसंक्रान्तयेष
युतिमधिकमुदारां कुन्तले दुर्बभार || १५१ ॥
इति श्रीविक्रमाङ्कचरिते महाकाव्ये त्रिभुवनमदेव-
विद्यापतिकाश्मीरकमश्रीबिल्हणविरचिते नवमः सर्गः

IX. 151 परिणयमंडपं Ms.