सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स° ९]
७३
विक्रमाङ्कदेवचरितम्।

नासौ बभूव स्मरपार्थिवस्य कस्याः पदं रोषाविभीषिकायाः ॥ ३ ॥

गृह्णन्गुणानह्नि विभावरीणां दिनप्रशंसां विद्धन्निशासु ।
क्रमादसौ तां क्षितिमाचकाङ्क्ष यन्त्र द्वयं नास्ति दिनं निशा च ॥ ४ ॥

त्रैलोक्यसंमोहनविद्ययेव तया जयास्थां महतीं दधानः ।
तं धन्विनां धुर्यमपि प्रहर्तुं विलासधन्वा धनुराचकर्षं ॥ ५ ॥

निजप्रभानिह्नुतचन्द्रभासा प्रभातलक्ष्म्येव परिस्फुरन्त्या ।
तया समानीयत पाण्डिमानं चालुक्यभूपालकुलपदीपः ॥ ६ ॥

शृङ्गाररत्नाकरवेलयेव तथा प्रवेशे विहिते तरुण्या |
नषानुरागेण मनस्तदीयं रत्नोत्करेणेव सनाथमासीत् ॥ ७ ॥

असौ भवित्री सुभगा नतभ्रूः करिष्यते पञ्चशरः प्रसादम् ।
भान्दोलितोभूदिति चिन्तयासौ त्रैलोक्यचिन्ताहरणक्षमोषि॥८॥

यथायथा निःश्वसितिस्म राजा निरङ्कुश कार्श्यमदर्शयच्च ।
तथातथा जागरयन्धनुर्ज्या भेजे जयास्थां भगवाननङ्गः ॥ ९ ॥

जाते धरित्रीतिलके चिरेण प्रकोपपात्रे मकरध्वजस्य ।
प्रकाशयन्तीव पतिव्रतात्वं परावखी तत्र रतिर्बभूव ॥ १० ॥

उर्वोपतेः पार्वणचन्द्रवक्ता समुद्रहन्ती हृदये निवासम् ।
विकासदीक्षामपराङ्गनानां सरोजिनीनामिव संजहार ॥ ११ ॥

नितम्बबिम्बस्य नितम्बवत्याः प्रकामविस्तारयशादिवास्य ।
पृथ्वीपतरेत्तमनायिकापि न कापि लेमे हृदयेषकाशम् ॥ १२ ॥

नितान्तमेकान्तनिषेवणेन द्वेषेण चान्तःपुरसुन्दरीषु ।
प्रच्छादनार्थं विहितक्षणोपि क्षोणोपतिस्ताडितडिण्डिमाभूत् ॥ १२ ॥

साडीतले कर्णपरिच्युतेपि कन्दर्पलेखभ्रममाससाद ।
उत्तंसमागच्छति षट्पदेपि प्रत्याशया कर्णमदत्त देवः ॥ १४ ॥

आकाशगर्भा गिरमाचकाङ्क्ष विलोकयामास विलासमितीः ।