( १९ )
सेनैव सर्वत्र न भवति यतस्ते मानिनः अनाहूता यत्र तत्र न गच्छतीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भं वचो ज्ञातुं बोद्धुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीन महान्दोषः । अत्र व्याजस्तुतिरलङ्कारः 'याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रुढिरन्यथा ।
भाषा
महाकवियो का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यो कि सभओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियो की उक्तियो का अर्थ भी समझने में असमर्थ होते है ।
अलौकिकोल्लेखसमर्पणेन विदग्धचेतः-कपपट्टिकासु । |
अन्वयः
विदग्धचेतःकपपट्टिकासु अलौकिकोल्लेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्णा लोकस्य कण्ठाभरणत्वम् एतु ।
व्याख्या
कषाणां निकषोपलानां ‘शाणस्तु निकष कषः' इत्यमरः । पट्टिकाः कपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकपपट्टिकास्वली किका लोकोत्तरा य उल्लेखाश्चमत्कृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेयां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतकाव्यरूपसुवर्ण (सुन्दरवर्णयुक्त काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कंठभूशणत्वमेतु प्राप्नोतु । यया कपट्टिकायां सुपरीक्षितं शुद्धमुतेमं स्वर्ण जनस्य कण्ठस्थ सदलङ्कारत्वं प्राप्नोति तथैव विद्वच्चेतःसु परीक्षित मिदकाव्यं जनस्य कण्ठस्थं सद् भूषण भवत्विति भावः । काव्ये सुवर्णाभेदारोपस्य विदग्धचेतःसु कषपट्टिकारोपे कारणत्वात्स्थरम्परितरूपकम् । ‘यत्र कस्यचिदारोपः परारोपण- कारणम् । तत्परम्परितम् ।
भाषा
विद्वानो को चित्त रूपी कसौटी पर (कसे जान पर) असाधारण सदुक्ति रूपी अच्छे कस के आने से जाचा हुआ मह काव्य रूपी सुवर्ण (सोना पा