पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१८ )

अन्वयः

 संक्रान्तवक्रोक्तिरहस्यमुद्राः ये रसध्वनेः अध्वनि चरन्ति ते अस्मत्प्रबन्धान् अवधारयन्तु । शेषाः शुकवाक्यपाठं कुर्वन्तु ।

व्याख्या

 सक्रान्ता सङ्गता वक्रोषतीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्रऽभिनियेशो येषु ते, ये सहृदया रसध्नेरध्यनि मार्गे चरन्ति विहरन्ति, वक्रोक्ति रहस्यज्ञातरो रसध्वनिमार्गाच्च ये न वहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धानस्मद्विर चितकाव्यान्वयधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये तदितरे शुकवत्तदर्थज्ञानमन्तरैव वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यतत्वमिति भावः ।

भाषा

  जो विचित्र उक्तियो के सम्पूर्णं रहस्यों को अच्छी तरह जानने वाले है और रसध्वनि के मार्गों का अवलम्बन करने वाले हैं वे विद्वान् कविलोग मेरे काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अथै रहस्य समझे) इस काव्य का केवल पाठ किया करें ।

अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् ।
ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रभाः क्षमन्ते ॥२३॥

अन्वयः

 महाकवीनाम् अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सभासु सुलभाः अल्पप्रतिभाः एषां जपं ज्ञातुं न क्षमन्ते ।

व्याख्या

 महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजनव्रुत्तित्वं तदन्यसामान्यं नास्त्यन्यसामान्यमनन्यसामन्य-मनन्यसामान्यञ्चतगुणत्वयश्चेत्यनन्यसामरत्यगुणत्वं विशेषगुणवत्वमेवायमेवाऽनर्थायाऽनिष्टोत्पत्यर्थं भवति जायते । इष्टे तु महाकवीनामाशयज्ञानं तत आनन्दानुभूतिः सा तु साधारणंबुद्विपतां न भवतीत्येवाऽनर्थः । यस्मात्कारणत्सभासु सर्पसभासु सुलभा, सुखेन लभ्याः स्वोद्योगेनेयाऽनन्दार्थमेवकीभूत इत्यर्थः । विशिष्टजनोपस्थितिः सभास्वनाया-