पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९४ )


'

व्याख्या

महति विशाले समरसङ्कटे तुमुले रणे प्रवृत्ते सति युद्धसम्याद्येन प्रतिभटानां विपक्षयोद्धृणां निर्दलनन्निःशेषेण खण्डनात् नाशादित्यर्थः । समाप्तं निरन्तर- युद्धकरणान्नष्टं भ्रष्टञ्च शस्त्रमायुधं यस्य स अन्यः कश्चिद्भटस्सुपोद्धाऽगणि तमकिञ्चित्करत्वेनाऽवबुद्ध मरण प्राणनाशो येन स एवम्भूतः सन् वेगाज्जवा प्रविश्य शत्रुसैन्यसमूह प्रसभं समाक्रम्यारिकरतो वैरिणो हस्तात्करवालं खङ्गमाचकर्षाऽकृष्टवान् ।

भाषा

घोर सग्राम होने पर विपक्षी शत्रुओं का दलन करने के कारण जिसके शस्त्र समाप्त हो चुके है ऐसा एक वीरमरने की कुछ भी परवाह न कर वेग से शत्रुओं के बीच में घुस कर उनके हाथ से तलवार छीनने लगा । अन्वयः

अन्वयः

भिरपि यियासुभिः प्रविश्य प्रतिभटमूर्धनि कोऽपि दत्तपादः। फलममनुत जन्मनोऽपि लब्धं यशांस रतिर्महतां न देहपिएडे ॥७७॥ अन्वयः कः अपि असुभिः यियासुभिः अपि (सद्भिः) प्रविश्य प्रतिभटमूर्धनि दत्तपादः (सन् ) जन्मनः फलम् अपि } लब्धम् अमनुत ।। महतां रतिः यशसि (भवति) न देहपिण्डे ।

इंख्यिकी

व्याख्या

कोऽप्यन्यः कश्चिद्भटोऽसुभिः प्राणैः 'पुसि भूम्न्यसय. प्राणा' इरयमरः । यियासुभिरपि गन्तुमिच्छुभिरपि सद्भिरासन्नमरणोऽपीत्यर्थः । प्रविश्य मध्येरण हठात्प्रवेश लब्ध्वा प्रतिभटस्य विपक्षवीरस्य मूर्धनि शिरसि दत्तस्स्थापितः पादचरण येन सः सन् जन्मन’ स्वजनुषः ‘जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः इत्यमरः । फलमपि प्रयोजनमपि लब्ध प्राप्त ममनृत कृतवान मन्यते स्म । वीराणां निहतशत्रो पादघातो महान्पुरुषार्थ इति भावः । महतां महामहिम- शालिना रतिः प्रीतिर्यशसि कीर्ती भवति न तु देह पिण्डे शरीरे । अत्रार्थान्तर- न्यासालङ्कारः