( २६७ )
अन्वय:
अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा तस्मिन् धवे जीवति एव विधवा इव व्यराजत ।
व्याख्या
क्षपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास् सम्मुन्नति: प्रसाधनं वा यया सा वैराग्यं विरक्ततां दधती धारयती धरा पृथ्वी तस्मिन् सोमदेवे धवे पत्यौ जीबस्येव विद्यमानेऽपि विगतो मृतो धबः पतिर्यस्या:सा विधवा सेवं मृतपतिकानायिकेव व्यराजत विभाति स्म। कर्णाटवेशरूप-केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पूष्णे सत्यपि कपाटदेशाधिपे ।सोमदेवे विघवेव स्थितेति भावः । विधवैव केशप्रसाधनं न करोतीति दिक् ।
भाषा
अपने कर्णाट देश रूपी कशो का शृङ्गार न करने वाली अर्थात् सोमदेव के पापाचरण से कर्णाटदेश की अवनती होने से, विरक्त पृथ्वी सोमदेवरूपी पति के जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी। भारतवर्षों में पहिले काल में सधवा स्त्रियाँ ही केमों का शृङ्गार करती थी।
चक्रु: स्तम्बेरमाः पृष्ठे तदारोहणदूषिते । |
अन्वय:
स्तम्बेरमाः तदारोहणदूपिते पृष्ठे उदस्तहस्तशीकवारिभिः अभ्युक्षणम् इव चक्षुः ।
व्याख्या
स्तम्बेरमा इभाः 'इभः स्तम्बेरमः पप यूथनाथस्तु यूथपः' इत्यमरः । तस्य पापस्य सोमदेवस्यारोहणेन तत्रस्थितिं गतेन दूषिते कलुषिते पृष्ठे , उदस्तान्यूर्ध्वं क्षिप्तानि हस्तेन शुण्डादण्डेन शीकरवारीणी जलवणाम्यू ‘मीकिरोम्बुकणाःस्मृताः इयमर:। तैर्वस्तहस्त शीकरवारिभिवारिभिरभ्युक्ष्णं सिञ्चनमिव चक्रुः ।अपवित्रस्थानं जलेनाभ्युक्ष्य पवित्रीक्रियते तथैव हस्तिनः पापसोमदेवस्थित्या5पवित्रे पृष्ठे शीकराणि प्रक्षिप्य तत्पवित्रीचक्रुरिति भावः । उत्प्रेक्षालङ्कारः ।