पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६८ )

भाषा

 हाथी, पापी सोमदेव वे बैठने से अपवित्र अपनी पीठ को, ऊपर उछाले हुए अपने सूंड के जलकणों के पानी से मानों पानी छिड़क कर पवित्र करते थे ।

फालैर्दिव्यमिवागृण्हन् मण्डलभ्रमणोद्यताः ।
अयोग्यतां साधयितुं तस्य सेनातुरङ्गमाः ॥१०३॥

अन्वय:

 तस्य अयोग्यतां साधयितुं मण्डलभ्रमणोद्यता: सेनातुरङ्गमाः कार्तदिव्यम् इव अगृण्हन् ।

व्याख्या

 तस्य सोमदेवस्याऽयोग्यता राजपदानर्हत्वं साधयितुं प्रमाणीकर्तुं मण्डलेन मण्डलाकरेण भ्रमणं परिभ्रमण तस्मिन्नुद्यतास्तत्परा मण्डले शुचिदेशे यद्भ्रमण गमनं तत्रोद्यता: लग्ना वा सेनाया वाहिन्यास्तुरङ्गमा अश्वाः फालै: स्फालैरूर्ध्वमुत्प्लुत्य गमनैदिव्यं शपथमिवाऽगृण्हन् । यथा , केचन मनुष्या: कमपि विषयं प्रमाणीकर्तुं पवित्रमण्डले गत्वोत्थाय शपयग्रहणं कुर्वन्ति । तथैव तैरश्वैर्मण्डलाकारभ्रमणव्याजेन पवित्रमण्डलमाश्रित्यो फ़ालैश्योर्ष्वमुत्थाय सोमदेवस्याऽयोग्यतां साधयितुं शपथग्रहणमिव कृतम् । अथवा यथा केचिन्मनुष्या:- प्रायश्चित्तग्रहणाय पवित्रर्मंण्डलाख्यास्थानेषु धावित्वा उत्फालं कुर्वन्तस्तेन च स्वस्य निष्पापतां प्रमाणयन्ति, तथैव मण्डलाकार-क्रीडा-भ्रमणब्याजेन,उत्फालैश्चाश्वाः सोमदेवसंपर्कजन्यपापादत्मानं पापरहितं साधयितुं दिव्यमिवाऽ-कुर्वन्निति भावः ।

भाषा

 उस सोमदेव की अयोग्यता सिद्ध करने के लिये उसकी सेना के घोडे मण्डलाकार (गोल) घूमते हुए या प्रायश्चिता भूमि में घूमते हुए अपनी उछलने की क्रीडा से या प्रायश्चित्त के लिये लम्बी छलाग मारने से मानो दिव्य का ग्रहण करने लगे । *अथवा जिस प्रकार कोई गनुष्य खड़ा होकर शपथ ग्रहण करता है उसी प्रकार ये घोड़े गोल घूमते २ बीच २ में उछल कर मानो राजा सोमदेव श्री अयोग्यता की कसम खा रहे थे ।