पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमोङ्कः ।

विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मायुक्ते चन्द्रकान्तः ।। २४ ।।

मन्मथोऽपि मनसिज एव न चाक्षुषः । विवेचनराहेित्यादर्भक इवानुरागो मुहुर्मुहुरभीष्टवरणे वञ्चितो भवति । बिहारासक्तचेतसः परस्परजयाकाङ्क्षिणो बालकानिव जननसत्यवादिनः करोति । तत्क्षणभंगुरोऽयं प्रणय । यतोऽसौ मकरन्दः कौमुदीदर्शनात्पूर्वं मय्यवर्तत प्रेमपरवशः । शश्वन्मद्रामंणीयकमेवास्तावीत् । मदुक्तम् ‘* मन्त्रमिव जजाप, बहुमङ्गलमिव मेने, आगममिव सस्मार, दिष्टवृद्धिमिव शुश्राव, उपदेशमिव जग्राह प्रतिशुश्राव च मय्यवनुरागम् । तावदेव तस्यानङ्गमङ्गलगृह यितं मे वदनेन । परं कौमुदीदर्शनात् प्रभृति तेन विस्मृतमेतत्सर्वमप्येकपद एव । संप्रति हालाहलायते मे वचनम् । द्वेष्टयसौ मद्दर्शनम् । नाद्रियते तद्विरहानलतापतप्तामेनां सौदामिनीम्। विवृत्तवदनो भवति सन्मुखागतायां मयि । किं बहुना । शपथशतेन निवारयति तमेवानुसरन्त माम् | किं करोमि, कुत्र वा गमिष्यामि, कं वा शरणं भजामि । केन वोपायेन प्रीणयामि प्रियमकरन्दम् । किं वा कौमुदी गमिष्यति श्वो नगरादस्मादिति निवेदयामि मकरन्दम् । तथा चेत्सोऽपि तामेवानुगमिष्यति । यदि मकरन्दः प्रीतो भवति मयि प्रियनिवेदनेन तदेव मन्ये महाभाग्यम् । यद्भावि तद्भवतु । सर्वथ।द्य तस्मै कौमुदीवसन्तपलायनं निवेद्य कदाचित्तदनुग्रहपात्रीभवेयम् ।

( इति निष्क्रान्ता ।)

इति वासन्तिकस्वप्ने प्रथमोऽङ्कः ।