पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ॥ सहते यातनामेतामनर्थानामभागिनी ॥ २१ ॥
इमां तु शीलसंपन्नां [१]द्रष्टुमर्हति राघवः ॥ रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥
[२]अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ॥ राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३ ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च ॥ धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४ ॥
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ॥ एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५ ॥
भर्ता नाम परं [३]नार्या भूषणं भूषणादपि ॥ [४]एषा तु रहिता तेन [५]भूषणार्हा न शोभते ॥ २६ ॥
दुष्करं कुरुते रामो हीनो यदनया प्रभुः ॥ धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७ ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ॥ सुखार्हां दुःखितां [६]दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥

क्षितिक्षमा पुष्कर[७]सन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ॥
सा राक्षसीभिर्विकृतेक्षणाभिः [८]संरक्ष्यते संप्रति वृक्षमूले ॥ २९ ॥
हिमहतनलिनीव नष्टशोभा व्यसन[९]परम्परयाऽतिपीड्यमाना ॥
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ ३० ॥
अस्था हि पुष्पावनताग्रशाखाः शोकं [१०]दृढं वै जनयन्त्यशोकाः ॥
[११]हिमव्यपायेन च [१२]मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१ ॥


मितिभावः ॥ १९-२० ॥ यातनां तीव्रवेदनां । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥ २१ ॥ प्रपां पानीयशालिकां । "प्रपा पानीयशालिका" इत्यमरः ॥ २२-२३ ॥ कामेति । काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥ २४ ॥ नैषा पश्यति राक्षस्यः राक्षसीर्न पश्यति । नेमान् पुष्पफलद्रुमान् । रामविरहक्लेशातिशयेन राक्षसीदर्शनवत्सुपुष्पफलवतां द्रुमाणामपि दर्शनमस्या असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति ध्यायतीत्यर्थः । रामागमनसंभावनावती दिशोवलोकयतीति वार्थः । यद्वा निरन्तरेण रामानुभवेन परिसरवर्ती कोपि पदार्थो न दृष्टिपथं गच्छतीत्यर्थः ॥ २५-२७ ॥ असितः केशान्तः यस्यास्तां । केशानामग्रे नैल्यं स्त्रीणां दुर्लभं । अतस्तदेवाह---असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीं । शतपत्रनिभेक्षणां । यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयं । कमलपत्राक्षस्यापि व्यामोहदायिनींं । सुखार्हां रामोत्सङ्गे स्थातुमर्हां । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः । शाखामृगस्य

ममापि मनो व्यथितं किमुत परमदयालो रामस्येति भावः । शोकहर्षयोरपदस्य ममापि मनो व्यथितं किं पुनः कामिन इति वा ॥ २८-२९ ॥ हिमहतेति विशेषणेन नलिन्याः पूर्वं बहुकालशोभितत्वंसिद्धं तद्वन्नष्टशोभा द्वादशवर्षं निष्प्रतिबन्धं भोगान्भुञ्जानाया आगन्तुको हि विश्लेषः तेनहिनष्टशोभेत्युक्तं ॥ ...व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये ... गत्यनिवृत्तः व्यसनमेव नैरन्तर्येणवृत्तं । आ... माना अतिक्रम्यपीड्यमाना । आश्रयाननुरूप ... नमनुभवतीत्यर्थः । सहचररहितेव चक्रवाक... कालमवगम्य दुःखं सोढुमसमर्था । चक्रवाक ... नायमर्थो लभ्यते । साहि रात्रिविरामकालं ... दुःखं सोढुमदक्षेति प्रसिद्धं । जनकसुता एवं ... भविष्यतीति ज्ञात्वा न संवर्धिता केवलंसुखसं... त्यर्थः । कृपणां दशां प्रपन्ना । पूर्वोक्तनलि... नोपमानं भवितुमर्हति । किंचिदुक्तिमात्रं ॥ ... नसापरिच्छेद्यां दुर्दशां प्राप्तेत्यर्थः ॥ ३० ॥ ... पायेन वसन्तेन । नैकसहस्ररश्मिरभ्युत्थितः ... रश्मिः सूर्यापेक्षया मन्दकरः । चन्द्र इति ...


  1. ख. ग. ङ. झ. ञ. ट. द्रष्टुमिच्छति.
  2. ग. नूनमस्याःपुनः.
  3. घ. ट. भार्याःशोभनं. ङ. झ. नार्याः ... ख. नार्याभूषणादपिभूषणं.
  4. क. घ.---ट. एषाहि.
  5. क. ग. ङ.---ट. शोभनार्हा.
  6. क. ग.---ज. ञ. ट. ज्ञात्वा.
  7. झ. ट. संनिभेक्षणा.
  8. क. संरक्षिता.
  9. क. ख. ग. ङ.---ट. निपीड्यमाना.
  10. ग. घ. दृढंसंजनयन्त्यशोकाः.
  11. दिनव्यपायेन. च. छ. ज. हिमव्यपायेनतु.
  12. ङ. झ. ञ. ट. शीतरश्मिः.