सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १६]
७३
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

तां दृष्ट्वा []नवहेमाभां लोककान्तामिव श्रियम् ॥ जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६ ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ॥ रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७ ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः ॥ वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ९ ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः ॥ दूषणश्च महातेजा रामेण विदितात्मना ॥ १० ॥
ऐश्वर्यं []वानराणां च दुर्लभं वालिपालितम् ॥ अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोक[]सत्कृतम् ॥ ११ ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ॥ अस्या हेतोर्विशालाक्ष्याः पुरी []चेयं निरीक्षिता ॥ १२ ॥
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ॥ अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३ ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ॥ त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ १४ ॥
इयं सा धर्मशीलस्य []मैथिलस्य महात्मनः ॥ सुता []जनकराजस्य सीता भर्तृदृढव्रता ॥ १५ ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ॥ पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६ ॥
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ॥ स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो []यशस्विनी ॥ १७ ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ॥ इयं सा दयिता भार्या राक्षसीवशमागता ॥ १८ ॥
सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता ॥ अचिन्तयित्वा []दुःखानि प्रविष्टा []निर्जनं वनम् ॥ १९ ॥
संतुष्टा फलमूलेन भर्तृ[१०]शुश्रूषणे रता ॥ या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ २० ॥


त्यर्थः । तुल्याभिजनलक्षणां अभिजनः कुलं लक्षणं सामुद्रिकं सार्वभौमलक्षणवतो भार्यायाः यैस्सामुद्रिकेलक्षणैर्भाव्यं तैर्युक्तामित्यर्थः । एवंविधत्वाद्राघवो वैदेहीमर्हति वैदेही राघवमर्हति । लोके सौन्दर्यादि... सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादि... सौन्दर्यादिसर्ववान् । अनयोस्तु सर्वं संपन्न...स्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रा... सीताया नयनसौन्दर्यमधिकमित्युच्यते । ... रामो वक्ष्यति । "न जीवेयंक्षणमपि विना...क्षणां" इति ॥ ५-६ ॥ अस्या हेतोरिति ...साम्नस्तृतीया च" इति षष्ठी । अनया हेतुने... ॥ ७-१० ॥ अस्या निमित्ते "निमित्तकार... सर्वासां प्रायदर्शनं" इतिषष्ठी सप्तम्यर्थे । ...नमित्ते सत्यामित्यर्थः ॥ ११-१२ ॥ परिव...धरोत्तरां कुर्यात् । अस्याः कृते एतदर्थं ।

जगच्चापि न केवलं मेदिनीं सर्वलोकानपि परिवर्तयेदित्यर्थः ॥ १३ ॥ राज्यंवेति राज्यमुत्कृष्टं वा सीतां उत्कृष्टा वा इति विचार्यमाण इति शेषः । कलां लेशं ॥ १४ ॥ भर्तृदृढव्रता भर्तरि दृढव्रता ॥ १५ ॥ केदारपांसुभिः यज्ञक्षेत्रपांसुभिः ॥ १६ ॥ आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ १७-१८ ॥ सर्वान् भोगान् भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनैव त्यक्त्वा । अयं च परित्यागो न स्ववशेनेत्याह---भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणाभावेपि गन्तव्यदेशीयदुःखं वा किं स्मरति नेत्याह---अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसंभावनेति भावः । प्रविष्टा निर्जनं वनं भोगस्यैकान्तस्थलमिति ह्यस्या हृदिलग्न-


...रोऽयंप्रद्युम्नहतादन्यएव । महेन्द्रपदेन तत्तुल्येप्रद्युम्नेलक्षणावा ॥ ८ ॥ ति० यच्छेषतया एवंप्राशस्त्यंदर्शितं तस्यकालस्य ...माह---इयंसेति । राक्षसीवशमागता । कालप्राबल्यादितिभावः ॥ १८ ॥ ति० भर्तृशुश्रूषणापरा । सन्नन्तात्स्वार्थे ...ण्यासश्रन्थ---' इतियुच् ॥ २० ॥

वा. रा. १५८

  1. घ. हेमाङ्गां.
  2. ग. च. छ. ज. वानरेन्द्राणां.
  3. झ. ञ. ट. ल्लोकविश्रुतः.
  4. क. चेयमवेक्षिता.
  5. ङ. झ. ... ट. जनकस्य.
  6. ङ. झ. ञ. ट. मैथिलराजस्य.
  7. च. छ. ज. मनस्विनः. क. ग. यशस्विनः.
  8. झ. ञ. ट. कष्टानि.
  9. ...ग. विजनं.
  10. ङ. झ. ट. शुश्रूषणापरा. ञ. शुश्रूषणेपरा.