सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १५ ]
७१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ॥ पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ४८ ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ॥ रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ ४९ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ॥ तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५० ॥
दुष्करं कृतवान्रामो हीनो यदनया []प्रभुः ॥ धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५१ ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ॥ []सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ ५२ ॥
एवं सीतां []तदा दृष्ट्वा हृष्टः पवनसंभवः ॥ जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥




शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥ ४७-४८ ॥ अथानयोरन्योन्याभिरूप्यानुगुण्यमाह---अस्या इति ॥ अस्याः सीतायाः । रूपं शरीरं अङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेव रामस्यापि रूपं अङ्गप्रत्यङ्गसौष्ठवं च । तथा रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधं । तथाविधमेवास्यारूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेषः ॥ ४९ ॥ तथानयोरन्योन्यस्यानुरागमाह---अस्या इति ॥ अस्या ... मनस्तस्मिन्रामे प्रतिष्ठितं । तेन हेतुना इयं ...पि जीवति । तस्य च मनोऽस्यां प्रतिष्ठितं तेन ... न स मुहूर्तमपि जीवति । तयोरन्योन्यंमनोनिवे...वे मुहूर्तजीवनमपि न घटत इति भावः ॥ ५० ॥ ...ति शैले रामस्य सीताविरहक्लेशातिशयं ...य हन्त वसिष्ठशिष्यः कस्याश्चिस्त्रियाः कृते ...मभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्त... संप्रत्यस्या वैलक्षण्यातिशयदर्शनेन विशेषज्ञ...तद्विरहे रामस्य देहधारणं सर्वासना अशक्य...---दुष्करमिति ॥ दुष्करं कृतवान्रामः । इमां ... समाधानपरो रामः प्रकाममशक्यं कृत्यमक... हीनो यदनया प्रभुः । अनया विना देहं ...वस्थित इति यत्तदत्यन्तमशक्यं । प्रभुः गजाश्वा-

दिकं शिक्षयितुं राज्यं पालयितुं च जानाति । न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्यामनो देहं । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहोयं देहं भोगायतनं हीदं न दुःखायतनं "दिह उपचये" इत्यस्माद्धातोः "इगुपधे"त्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमितिभावः । विशेषज्ञेनापि कथमिदं त्यक्तुं शक्यं तत्राह---न शोकेनावसीदति ॥ ५१ ॥ उक्तमर्थं किंचिद्विशेषान्तरेण दर्शयति---दुष्करंकुरुतइति ॥ ५२ ॥ एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा । हृष्टःसन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं । प्रशशंस च । पुनः प्राप्त्युपयुक्तपतिव्रतोक्तधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो रामइत्यस्तौषीत् । यद्वा एतादृशसौन्दर्यवतीं सीतांदृष्ट्वा एतद्विरहितस्यमहाञ्शोकः प्राप्तः अतः युक्तमेवकृतवान्राम इत्यस्तौषीत् ॥ ५३॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥



...विन्ति रामोक्तसंनिवेशवन्ति ॥ ४१ ॥ स० अङ्गप्रत्यङ्गसौष्ठवं अङ्गानिहस्ताद्यवयवाः । प्रत्यङ्गानिअङ्गुल्यादीनि । तेषांसौष्ठवं ...मीचीन्यं ॥ ४९ ॥ स० मुहूर्तशब्दएतावत्कालोपलक्षकः ॥ अन्यथानजीवेदित्याशयः ॥ ५२ ॥ इतिपञ्चदशः सर्गः ॥ १५ ॥

  1. ञ. विभुः.
  2. ग. घ. विनासीतां.
  3. ट. तथा.