पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ॥ तर्कयामास सीतेति कारणै[१]रुपपादिभिः ॥ ३८ ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ॥ तान्याभरणजालानि [२]शाखाशोभीन्यलक्षयत् ॥ ३९ ॥
[३] सुकृतौ कर्णवेष्टौ च [४]श्वदंष्ट्रौ च सुसंस्थितौ ॥ मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ॥ ४० ॥
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ४१ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ॥ यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ४२ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ॥ उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४३ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ॥ [५]अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४४ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ॥ [६]तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ४५ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ॥ प्रनष्टाऽपि सती [७]याऽस्य मनसो न प्रणश्यति ॥ ४६ ॥
इयं सा यस्कृते राम[८]श्चतुर्भिः परितप्यते ॥ कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ४७ ॥


न्तीमविवक्षितमर्थं बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरंगतां व्युत्पत्त्यनन्तरं स्वार्थं प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ३७-३८ ॥ शाखायां शोभन्त इति शाखाशोभीनि भर्तृविरहकाले भूषणधारणस्यानुचितत्वात् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ३९ ॥ कर्णवेष्टौ कुण्डले । "कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनं" इति सज्जनः । श्वदंष्ट्रः त्रिकर्णकाख्यः पुष्पाकारःकर्णपार्श्वभूषणविशेषः । "त्रिकर्णकः श्वदंष्ट्रश्च" इत्यभिधानरत्नमाला । हस्तेषु हस्तावयवेषु । श्यामानि विरहतापौष्ण्यवशाच्छयामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् । संस्थानवन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ४० ॥ तान्येवेत्यर्धमेकं वाक्यं ॥ ४१ ॥ तत्र ऋश्यमूके । यान्यवहीनानि पतितानि तान्यहं नोपलक्षये । अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि । तानीमानि तत्तुल्यत्वात् ॥ ४२ ॥ प्लवङ्गमैः सुग्रीवा-

दिप्लवङ्गमैः । यदुत्तरीयं दृष्टं यानि भूषणानि दृष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगासक्तमित्यनेन पतनदशायामुत्तरीयाग्रं वृक्षे किंचित्सक्तमिति द्योत्यते ॥ ४३-४४ ॥ इतरत् उत्सृष्टं ।तदुत्तरीयं यथा यादृशवर्णयुक्तं यथा श्रीमत् इदं इदानीं धार्यमाणं । तद्वर्णं तथा श्रीमत् नूनमिति योजना ॥ ४५ ॥ या रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति सदा मनसा दृष्टा भवतीत्यर्थः । सा कनकवर्णाङ्गी इयं मया परिदृश्यमानेत्यर्थः ॥ ... रामः कारुण्यादिभिश्चतुभिः यत्कृते परितप्यते ... कारुण्यादीनां परितापहेतुत्वं विभज्य दर्श ... स्त्रीति ॥ आपत्काले स्त्रियो रक्षणीयाः तन्न ... कारुण्यात्परितप्यते । आनृशंस्यमक्रूरत्वं । आ... रक्षणैकस्वभावत्वमिति यावत् । तस्मात् आश्रि... रक्षितेति परितप्यते । "अर्धो वा एष अं... यत्पत्नी" इत्युक्तरीत्या आत्मार्धभूता पत्नी ...


व्याकरणाद्यभ्यासदुःखेनव्युत्पत्तिसंपाद्यबुध्यते तद्वत्सीतांकष्टेनबुबुधे ॥ ३७ ॥ स० उपपादिभिः अनुमापकैः ॥ ३८ ... इदानीं सीतात्वोपपादकमाह---वैदेह्याइति । तदा स्वप्रस्थानसमये । गात्रशोभीनीतिपाठः कतकसंमतः । येष्वङ्गेषुयान्य... जालान्यकीर्तयत् तान्याभरणजालानि तत्तद्गात्रशोभीन्यलक्षयदिति प्रत्यभिज्ञाप्रामाण्यंसिद्धं ॥ तीर्थस्तु---शाखाशो... पाठंप्रकल्प्य रामविश्लेषसमये भूषणधारणस्यानुचितत्वाद्वैदेह्याभूषणानिस्वाङ्गेभ्यउन्मुच्यशाखायांन्यस्तानीतिगम्यतइतिव्या... तत्तूत्तरश्लोकयोर्हस्तेष्विति तथा श्यामानिचिरयुक्तत्वादिति पदस्वरसविरुद्धं । किंचैवं तदङ्गेरामोक्ताभरणाभावादसीतात्वमे... ॥ ३९ ॥ ति० अथकस्मिन्गात्रेकिमाभरणंदृश्यतेतत्राह---सुकृताविति । सुसंस्थितौ कर्णरूपाङ्गेसुप्रतिष्ठितौ उपलक्षयेइति ... यानिरामेणोक्तानि तथैवसुस्थितान्युपलक्षये ॥ ४० ॥ ति० चिरयुक्तत्वात्चिरकालमसंस्कृतदेहस्थितत्वेनश्यामान्यपि तथा ...

  1. क. ङ. झ. ञ. ट. रुपपादयन्.
  2. घ. ङ. झ. ट. गात्रशोभीनि. क. च. छ. ज. शाखाशोभीनिलक्षये.
  3. च. छ. ज. सुसंस्कृतौकर्णवेष्टौ.
  4. क. च. छ. ज. ञ. श्वदंष्ट्रौचापिसंस्थितौ.
  5. क. ग. च. ज. अनयैवप्रमुक्तानि...
  6. तथाप्यनूनं. ग. च. छ. ज. ञ. तथाहिनूनं.
  7. ग. घ. ङ. झ. ट. यस्य.
  8. ङ. झ. ञ. द. श्चतुर्भिरिहतप्यते.