सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ ॥ आज्ञापय द्राक्ष सेन्द्रः पुरं सर्व सचत्वरम् || लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकशिताः || वेष्टेयन्ति स लाङ्गूलं जीर्णैः कार्पासकै पटैः ॥ ६ ॥ संवेष्यमाने लाझूले व्यवर्धत महाकपिः || शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥ तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ ७ ॥ लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् || रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ ८ ॥ लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनुमतः ॥ सहस्त्रीबालवृद्धाश्च जग्मुः प्रीती निशाचराः ॥ ९ ॥ स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः || निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ॥ १० ॥ कार्म खलु न मे शक्ता निवद्धस्यापि राक्षसाः || छित्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः ॥११॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् || बैनन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ १२ ॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १३ ॥ लङ्का चारयितव्या वै पुनरेव भवेदिति ॥ रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ १४ ॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५ ॥ कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ॥ पीडां कुँवर्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥१६॥ प्रदीप्तेन लाङ्गूलेन युक्तो हनुमान् सचत्वरं सर्वे पुरं | वकर्तव्यत्वेनरामाभिमतत्वाद्राक्षसाना महमीदृशं बन्ध- परिणीयतां परितो नीयतां । इत्याज्ञापयदित्यन्वयः नाकर्षणादिरूपंपरिभवंसहिष्यइतिभावः । रामस्यप्री- ॥ ५–७ ॥ अपातयत् लाङ्गूलभ्रामणेन अद्रावय त्यर्थमित्यत्र च्छन्दोभङ्गआर्षः ॥ १३ ॥ लङ्का रात्रौ दित्यर्थः ।। ८—१० ।। न मे शक्ताः न मे पर्याप्ता दुर्गकर्मविधानतः दुर्गकर्मविधानाद्धेतोः। नहिसुदृष्टा इत्यर्थः । मम निग्रहे नसमर्थाइतियावत् ॥ ११ ॥ नैवसुदृष्टा । यद्वा दुर्गकर्मविधानतः नगरगुप्तिविशेष- भर्तृहितार्थाय रामहितार्थाय । चरन्तं प्रवर्तमानं । मामितिशेषः । भर्तृशासनात् रावणशासनात् । यदि ज्ञानपूर्वक मित्यर्थः । नदृष्टेतिहेतोर्मया लङ्का पुनश्चार- बघ्नन्ति । तावता मे निष्कृति: प्रतिक्रिया | नकृता । यितव्याभवेत् | विचरित्वा द्रष्टव्या भवेदित्यर्थः । इदं बन्धनमकिश्चित्करमिति भावः || १२ || | अयं च प्रातः कालः नतूषःकाल: । प्रातःकालेपि रामस्यप्रीत्यर्थमिदंविषहिष्ये । रावणादिवधस्य स्नै- तथाव्यवहारोपपत्तेः ॥ १४ - १५ ॥ मनसः श्रमइ- ति० आरण्यकायथाशुष्क मिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितलाङ्गूलं तैलेपरिषिच्य तत्रतेग्निमुपपादयन् उदपादयन्नित्यर्थ इतिकतकः । हुताशनइतिपाठे वृद्धौदृष्टान्तोऽयं । उपपादयन्नित्यस्य समयोजयन्नित्यर्थ इत्यन्ये ॥ ७ ॥ तान् बध्वानेतॄन् ॥ ८ ॥ ति० यदितांवधरूपांचिकीर्षुस्तदासर्वान्हनिष्याम्येवेत्याह- सर्वेषामिति । यदिपर्याप्त स्तर्हिक्रियतांशत्रवध स्वत्राह – रामस्येति ॥ १३ ॥ ति० निशाक्षयइत्यनेन सीतासंभाषणथकतिपय दिनवासोगम्यते । तथाहि - फाल्गुनेरावणेन्सी- तापहारः । आश्विनशुक्लसमाप्तौहनुमत्प्रेरणयापक्षावधिदानेनवानराम्प्रतिदूतप्रेषणं । ततःकार्तिक शुक्ल प्रतिपद्यन्वेषणार्थवानरप्रस्थ नं । मार्गशुक्लदशम्यांसंपातिदर्शनं । तदासुग्रीवदत्तमासावधेर्गतत्वस्यवानरैरुक्तिः । अग्रएकादश्यांहनुमतोलङ्कागमनं । तद्रात्रिशेषेसी द र्शनं । ततोद्वादश्यांदिनेस्थित्वारात्रौसीतायाः सम्यग्दर्शनं । तद्रा त्रिशेषेतत्ररावणागमनं । तत्ररावणेन “ मासान्द्वादशभामिनि ' इति स्वदत्तावधौमासयाव शेषवचने कतिपय दिनाधिक्यंतुमासत्वानवच्छिन्नत्वेनाल्पान्तरत्वान्नविवक्षितं । ततस्त्रयोदश्यांप्रातःसीत- यासहकथालापः । तद्दिन एवाशोकवनिकाभङ्गादि । चतुर्दश्यामक्षान्तवघोलङ्कादाहश्चपूर्णिमायांवां | पूर्ववासन्ति कवृक्षाणांपुष्पित त्वोक्तिस्तु तद्वर्षेक्षयमासेनोपपादिता उत्पातेनच । लक्ष्मणस्यसुग्रीवनिकटेप्रेषणसमयेर। मेणमासचतुष्टय रूपकृतावधेरपगमोक्तिस्तु [ पा० ] १ क. ख. ग. ङ. – ट. कोपकर्कशाः. घ. क्रोधमूच्छिताः २ क. ख. ग. ङ. झ. ट. वेष्टन्तंतस्यलाङ्गूलं. ३ क. ङ. झ. टं. तत्रोपपादयन्. घ. तत्रावपातयन्. ख. तत्राप्यपातयन् च. ज. तत्रप्रदीपयन्. ४ ख• सतुरोषपरीतात्मा. क. रोषामर्षपरीताक्षः ५ ख. दृष्ट्वासर्वे. क. च. छ. ज. ज. दृष्ट्वातस्यमहात्मनः ६ क. छ. - . प्रीतिं. ७ क. संगतैर्वीरैः. ८ क. ख. घ. च. छ. ज. न. भर्तुर्हितार्थाय ९ ङ. झ ट निबनते. १० क. रामस्यकार्यार्थ. क. रामप्रियातु. ११क, ख. डट. चारयितव्यामे. १२ क. ङ. झ. कुर्वन्ति.