पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ९७ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ॥ चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥ ७ ॥ सा वेपमाना पतिता प्रवाते कदली यथा ॥ राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥ ८ ॥ तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ॥ ददृशे कैम्पिनी वेणी व्यालीव परिसर्पती ॥ ९ ॥ सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना || आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ १० ॥ हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च ॥ हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ११ ॥ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ॥ अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥१२॥ यंत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता || जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३ ॥ एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् || समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ १४ ॥ भर्तारं तमपश्यन्ती राक्षसीवशमागता || सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५ ॥ तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् || धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६ ॥ सर्वथा तेन हीनाया रामेण विदितात्मना || तीक्ष्णं विषमिवास्खाद्य दुर्लभं मम जीवितम् ॥ १७ ॥ कीदृशं तु मैया पापं पुरा जन्मान्तरे कृतम् || येनेदं प्राप्यते दु:खं मया घोरं सुदारुणम् ॥ १८ ॥ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ॥ राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९ ॥ धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् || न शक्यं यत्परित्यक्तमात्मच्छन्देन जीवितम् ||२०|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ धिष्ठितशिंशुपासन्निहितस्य ॥ ६ ॥ अन्तं अवधिं | | दुलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्वा दलतीति अधिगच्छति अध्यगच्छत् ॥ ७ ॥ राक्षसीनां राक्ष- सीभ्यः ॥ ८ ॥ सीतयेति व्यत्ययेन षष्ठयर्थे तृतीया । परिसर्पती परिसर्पन्ती । नुमभावआर्षः ॥ ९ ॥ दुःखार्ता | राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरार्ता ॥ १० ॥ सुमित्र संबुद्धावाप एकादेशभाव आः ॥ ११ ॥ लोकप्रवाद इत्यादि- श्लोकद्वयमेकं वाक्यं ।। अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इतिकरणं बोध्यं । यत्र यतः ॥ १२–१३ ॥ ` पूर्णा पद चैरिति शेषः ।। १४ – १५ ॥ मम धनं सर्वेषां सत्र भविष्यतीत्याह - तमिति ॥ तं “ बहवो नृप कल्याणगुणाः पुत्रस्य सन्तिते " इति प्रसिद्धं | आसगुणानुक्त्वा विग्रहगुणानाह – पद्मदलपत्राक्षं दलं गर्भपत्रं । विस्पष्टार्थमेकार्थे शब्दद्वयं वा । सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ॥ १६ -१७ || पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणं अत्यन्तघोरमित्यर्थः ॥ १८ ॥ रक्ष्यन्त्या रक्ष्यमाणया ॥ १९ ॥ परवश्यतां भर्तृपरततां । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्मच्छन्देन मदिच्छया ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्च- विंशः सर्गः ॥ २५ ॥ । तिककर्तृवन्तः । इवार्थस्तुशब्दोवा || ती ० हनुमदधिष्ठितशिशुपामूलंप्राप्तायास्सीतायाअशोकशाखालंबनाभिधानादशोकशा- " • खा. शिशुपाशाखाश्च परस्परंसंमिलितावर्तन्त इत्यवगम्यते ॥ ६ ॥ स० भयत्रस्ता भयैः घोरैरायुधादिभिः । त्रस्ता भीता । “भयं प्रतिभये खोरे ” इतिविश्वः ॥ ८ ॥ स० अनाथवत् अनाथेव | आर्षः पुंवद्भावः ॥ १४ ॥ इतिपञ्चविंशः सर्गः ॥ २५ ॥ ३ ङ. झ. ट. कंपिता. ४ झ. शोकार्ताकोपोपहतचेतना. [To ] १ क. विषण्णवदना. २ ङ. झ. ट. दीर्घबहुला. ५. क. घं. ङ. झ. ट. विललापच ६ क. घ. छ. झ ञ ट . यत्राहमाभिः ७ ङ. झ ञ ट जीवनं. ८ ङ. ट. महापापं मयादेहान्तरे. ९ ङ. ज. -ट. घोरंमहादुःखं. ङ. ट. घोरंमहद्दुःखं. वा. रा. १६१ ✓