सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३० ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ४८५ कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ २२ ॥ अथैवमुक्ते वचने हनुमानिदमब्रवीत् ॥ अर्थ विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ २३ ॥ सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ॥ भरद्वजप्रसादेन मत्तभ्रमरनादितान् ॥ २४ ॥ तस्य चैष वरो दत्तो वासवेन परन्तप ॥ ससैन्यस्य तथाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २५ ॥ निस्खनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ॥ मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥२६॥ रजोवषं समुद्धृतं पश्य वालुकिनीं प्रति ॥ मन्ये सालवनं रम् लोलयन्ति प्लवङ्गमाः ॥ २७ ॥ तदेतदृश्यते दूराद्विमलं चन्द्रसन्निभम् । विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् । रावणं बान्धवैः सार्ध हत्वा लब्धं महात्मना ॥ २८॥ तरुणादित्यसंकाशं विमानं रामवाहनम् ॥ धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥ २९ ॥ एतसिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ॥ सुग्रीवश्च महा तेजा राक्षसश्च विभीषणैः ॥ ३० ॥ ततो हर्षसपुङ्गतो निखनो दिवमस्पृशत् । घालयुचवृद्धानां रामोऽयमिति कीर्तिते ॥ ३१ ॥ रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ॥ ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ ३२॥ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ॥ स्वागतेन यथार्थेन ततो राममपूजयत् ॥ ३३ ॥ मनसा ब्रह्मणा सृष्टी विमाने भरताग्रजः ॥ रराज पृथुदीर्घक्षो वपाणिरिवापरः ॥ ३४ ॥ ततो विमानाग्रगतं भरतो भ्रातरं तदा ॥ ववन्दे पुंयत्तो रामं मेरुस्थेमिव भास्करम् ॥ ३५ ॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥ हंसयुक्तं महावेगं निर्गुपात महीतले ॥ ३६ ॥ सेव्यते । त्वयेति शेषः । तत्र हेतुमाह--न हीति । | मन्ये । यस्मात् भीमो निस्स्वन इति भावः । २६ । । रामस्य दूरागमनेपि नासीरंचारिणः कपयो दृश्येरन् | ततोपि सन्निकर्षमांह-रज इति । समुद्धृतं रजोवर्षे तेषां कामरूपित्वेन स्वरूपेणादर्शनेपि रूपान्तरेण वा | पश्य । तस्माद्वलकिनीं नदीं प्रति यातीति मन्ये । दृश्येरन् । तदपि नास्तीत्यर्थः ॥ २२ ॥ अथै विल- | क्षिप्रं वानरसेनाया अनागमने हेतुमाह-मन्य इति ।। बहेतुं । “ अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयो- | तस्मात्तस्याः विलम्बः ॥ २७ ॥ विमानं तु दृश्यत। जने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु इति । इत्याह--तदेतदिति । पुष्पकं विमानं पुष्पकाख्यं वैजयन्ती ॥ २३ ॥ भरद्वाजप्रसादेन सदाफलानिति । विमानम् ॥ २८ ॥ दिव्यं मनोजवं तरुणादित्यसं संबन्धः । प्राप्य वानराः हृष्यन्तीति च शेषः॥२४॥ | काशं रामवाहनमेतद्विमानं । प्रसादेन धनदस्य ब्रह्म- ससैन्यस्य रामस्य वासवेन एष वरो दत्तः अकाल- | प्रसादेन धनदस्य छब्धमित्यर्थः । परेण तपसा फलित्ववरो दत्तः । तथा सर्वगुणान्वितं आतिथ्यं लेभे यत्कुबेरः पितामहात् ” इति सुन्दरकाण्डोक्तेः मधुस्रवत्वरूपं भरद्वाजेन कृतं । अतोऽकालफलित्वं ।। २९ । एतस्मिन्निति ॥ आसत इति शेषः मधुस्रवत्वं च वनस्य युक्तमित्यर्थः ॥ २५ ॥ एवं |॥ ३०–३२ ॥ यथार्थेन स्वागतेन चतुर्दशे वर्षे विलम्बहेतुमुक्त्वा समीपागमनचिहं दर्शयति-निस्स्वन | पूर्ण अवश्यमागमिष्यामीति प्रतिज्ञानुसारिणा स्वाग इति । इदानीं वानरसेना गोमतीं नदीं तरतीति | मनेनेत्यर्थः । अपूजयत् अश्लाघयत् ॥ ३३-३६ ॥ प्राप्तेनन्दिप्राममुपागमत् ’ इत्युक्तेः पाशैपि “ पुनरागत्यकाकुस्थंहनुमान्सर्वमब्रवीत्’ इत्युक्तेश्वमध्येपुनारामंगखोक्खचभरतरीतिं नसेव्यतेकर पुनर्हनुमान्भरतमुपागतइतिकथा ‘कच्चिन्नखड्कापेयी' इत्यतःपूर्वमनुसंधेया । कापेयी कपिसंबन्धिनीचलचित्तता । चित् । कुतस्तवशङ्कयतआह-नहीति । पश्वदायातुनश्वर्यः किंकपयोपिनोपयाताःपुरतइतिपृच्छति--कञ्चिदिति ॥ २२ ॥ ती० मनसाब्रह्मनिर्मितं विश्वकर्मणामनसांब्रह्मार्थनिर्मितं । ति० ब्रह्मनिर्मितं ब्रह्मणा स्रष्टत्वसाम्याद्विश्वकर्मणा । २ [ पा० ] १ ङ. झ. अ . ट. अर्थे २ ख , ग, ङ. च. छ. झ. ज. रिवामरः, ३ ख. घ. ङ. च. ज. -ट. प्रणतो, ४ कर ख. ग. च.-ट. निपपात