पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२६ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४७१ प्रिये त्वं सह तैरीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ ३२॥ वर त्वमभिगच्छामो गृह्य वानरयोषितः॥ अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ ३३ ॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ॥ आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥ ३४ ॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ॥ मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३५ ॥ प्रेवेशं चापि रामस्य पौरजानपदैः सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ३६ ॥ तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः ॥ नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् । अध्यारोहन्विमानं तत्सीतादर्शनकाद्या ॥ ३७ ॥ ताभिः सहोत्थितं शीघं विमानं प्रेक्ष्य राघवः ॥ ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥ ३८ ॥ दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः। अश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्युतः ॥ ३९ ॥ अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ॥ समयश्च कृतः सीते वधार्थ वालिनो मया ॥ ४० ॥ एषा सा दृश्यते पम्पा नलिनी चित्रकानना । त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥४१॥ अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी । अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ ४२ ॥ ॐयते च जनस्थाने सीते श्रीमान्वनस्पतिः । यत्र युद्धं महद्वैतं तव हेतोर्विलासिनि ॥ रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥ ४३ ॥ खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः। नतु वानराणां। भाषत अभाषत ॥ ३१ ॥ नारीभिः | विभूतिं ऐश्वर्यं च । द्रक्ष्याम इति शेषः ।।३५–३६।। स्त्रीभिः सह अनुज्ञाता । अयोध्यागमनं प्रतीति शेषः । | तारयेत्याद्यर्धत्रयमेकान्वयं । नेपथ्यं अलंकारं । त्वं च वानरस्त्रियश्चानुज्ञाता इत्यर्थः । नारीणामिति | विधिपूर्वेण मङ्गलालम्भनादिविधिपूर्वकमित्यर्थः । अ पाठे तृतीयार्थे षष्ठी ॥ ३२ ॥ गृह्य गृहीत्वा । आनी- | त्रालंकरणाह्वानादिना दिनमेकं गतमित्याहुः । प्रद् येति यावत् । दर्शयिष्यामः द्रक्ष्यामः । दशरथस्त्रियः | क्षिणं कृत्वा । विमानस्येति शेषः । प्रादक्षिण्येन दशरथस्त्रियश्च ॥ ३३ ॥ सर्वाङ्गशोभनेत्यनेन पूर्व | गमनमात्रमत्र विवक्षितं । अतिविपुलस्य तस्य सद्यः स्वयमलंकृतवतीति गम्यते ॥ ३४॥ सुग्रीवेणेत्यादि| प्रदक्षिणासंभवात् ॥ ३७ उत्थितमित्यनेन तारा श्लोकद्वयमेकान्वयं । । सुग्रीवेण सर्वैर्वानरैः स्वस्वभ- | गमनपर्यन्तं भूमौ विमानं स्थितमिति ज्ञायते ॥ ३८ नृभिर्वानरैः सह अयोध्यां गन्तुमभ्यनुज्ञाताः। यूय- |-•३९ ॥ समयः संकेतः ॥ ४० ॥ विललाप । मिति शेषः । न केवलं सुग्रीवानुज्ञामात्रं मत्प्रियार्थं | लिवुत्तमैकवचनं ॥ ४१-४२ ॥ दृश्यते चेत्यादि च भवतीभिरागन्तव्यमित्याह--मम चापीति । | सार्धश्लोकमेकं वाक्यं । श्रीमान् वनस्पतिः जटायु अयोध्यादर्शनेन मम यस्प्रियं तद्भवतीमिः सहगत्य | निवासभूतो वटः । तस्य श्रीमत्त्वं महसना जटायु कार्यमित्यर्थः । रामस्य प्रवेशं च दशरथस्य स्त्रीणां च षाधिष्ठितत्वात् ।। ४३ ॥ खरश्चेत्यादिसार्धश्लोक रामानु० सुग्रीवेणाभ्यनुज्ञाताः वयमितिशेषः । वानरैश्वभ्यनुज्ञाताः यूयमितिशेषः । ममचापिप्रियंकार्यमित्यत्रभवतीभिरिति शेषः । स० अयोध्यादर्शनेनभवतीभिर्ममप्रियंकायै ॥ ३५ ॥ स० अध्यारोहन् । ननुपूर्वरामस्यनागपाशबन्धसमयेरामदर्शनार्थं विमनेनानीतांसीतांप्रति तवपतिवेन्नजीवतितहैिंनेदं विमानंखांवहेदितिसरमावाक्येनपुष्पकस्याविधवावाहकत्वनियमोक्त्याक्थ- मत्रतारायाविमानरोहणमितिचेदुच्यते । सरमावाक्यंनसीतायाविधावपुरस्कारेणविपक्षेयानारोहनिषेधपरं । किंतु दृश्यमानरान् मस्यमरणेतवाचित्वेननेदंत्वामावहेदित्येवंपरं । यद्वा उक्तनियमाङ्गीकारेपिनक्षतिः । तारायारामवाक्यात्सुग्रीवपतिकत्वेनवावि मानारोहसंभवात् । ‘पुत्रिण्यविधवा ” इतिस्मृतेःपुत्रेणवातस्याअविधवावबोध्यं ॥ ३७ ॥ ती० ताभिःसहोत्थितमित्यनेन चतुर्थीकिष्किंधायामुषित्वापञ्चम्यांततःप्रस्थानमित्यवगम्यते । उपरिपञ्चम्यां भरद्वाजाश्रमप्रवेशस्यवक्ष्यमाणत्वात् ॥ ३८ ॥ इतिषडंशत्युत्तरशततमोऽध्यायः ॥ १२६ । [ पा० ॥ १ इ. छ, शा. अ. ट, नारीणांवानराणां२ ख, प्रवेशूचापिपश्यामःपौर. ३ ङ, च, छ, झ, झ, ठ, डयतेऽसौ.