सर्गः १२२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५७ नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ॥ अनन्या हि मया सीता भास्करेण प्रभा यथा ॥ २० ॥ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ॥ नै हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥२१॥ अवश्यं तु मया कार्यं सर्वेषां वो उँचः शुभम् ॥ स्निग्धानां लोकंमान्यानामेवं च ब्रुवतां हितम् ॥२२॥ ईतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः खञ्तेन कर्मणा । समेत्य रामः प्रियया महाबलः सुखं सुखातेंऽनुबभूव राघवः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः ॥१२१॥ द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥ महेश्वरेण रामप्रशंसनपूर्वकंतंप्रति विमानस्थदशरथप्रशंसनेन तन्नमनचोदना ॥ १ ॥ दशरथेन स्वप्रणामिनोरामस्याह्रो- पणेन सप्रशंसनपरिष्वङ्गमाशीर्वचनम् ॥ २ ॥ तथा रामप्रार्थनया कैकेयीशापापवदनपूर्वकं सीतालक्ष्मणौप्रति सप्रशंसनं रामसेवानुशासनेनस्वर्गगमनम् ॥ ३ ॥ एतच्छुत्वा शुभं वाक्यं रौघवेण सुभाषितम् ॥ ईदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ १ ॥ पुष्कराक्ष महाबाहो महावक्षः परन्तप । दिया कृतमिदं कर्म त्वया शत्रुभृतांवर । २ ॥ दिया सर्वस्य लोकस्य प्रवृद्धे दारुणं तमः ॥ अपावृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ३ ॥ आश्वास्य भरतं दीनं कौसल्यां च यशस्खिनीम् ॥ कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ४॥ तथाप्येषा तादृशमैश्वर्यं कथं जह्यात्तत्राह-नेयमिति । देवकार्यस्य कृतत्वात्रिदिवमाक्रमेति ब्रह्मणोक्तत्वा रावणैश्वर्यं नेयमर्हति किंतु ममैश्वर्यमर्हतीत्यर्थः । | लोके धर्मसंस्थापनपरं रामहृदयं जानन् रुद्रस्तदनुम- तत्र हेतुमाह-अनन्येति । मया अनन्या अभिन्ना । | न्यंते-एतच्छुत्वेत्यादि । १॥ पुष्कराक्ष पुण्डरी- विनाभूतेति यावत् । २० ॥ अहमपि तया अनन्य | काक्ष । अनेन तस्य ‘यथा कष्यासं पुण्डरीकमेवम इत्याह-विशुद्धेति ।। २१। सीतापरिग्रहे भवद्वचनं | क्षिणी, पुरुषः पुण्डरीकाक्ष” इति श्रुतिस्मृतिभ्यामु तु प्रधानहेतुरित्याह-अवश्यमिति । वचनकरणे स्नेहः | दीरितस्य परब्रह्मासाधारणचिह्नस्य रामेरुद्रेण प्रति सर्वपूज्यत्वं हितोपदेष्टत्वं च हेतुरित्यर्थः २२ पादनाद्रामत्वेनावतीर्णा विष्णुरेव वेदान्तवेयं परत्र विदितं स्वेन विदितं । इदं उक्तं वचनं । उक्त्वा स्वकृ- | दोयुक्तं । श्रीनिवासत्वेन महावक्षस्त्वं । दिष्टया तेन कर्मणा करणेन महाबलैः कर्तृभिः प्रशस्यमानः | भाग्येन । अस्माकमिति शेषः । २। उक्तमेव विवृ प्रियया समेत्य सीतां स्वसमीपमानीयेत्यर्थः॥ २३ ॥ | णोति--दिष्टयेति । सर्वस्य लोकस्य रावणजं भयमेव इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | प्रवृद्धं तमः अपावृत्तं निरस्तं ॥ ३ ॥ आश्वास्येत्या रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकविंशत्यु- | दिश्लोकत्रयमेकान्वयं । यशस्खिनीमिति कैकेयीवि- तरशततमः सर्गः ॥ १२१ ॥ शेषणं । तन्मूलत्वाद्रावणवधस्य तस्या यशस्वित्वं । लक्ष्मणमातरमित्यनेन सा लक्ष्मणस्नेहाद्विशेषतो वन्द्य ति० वैक्लब्यं कातर्यपीडां । अनन्याहीति । ‘अर्धवाएषआत्मनोयत्पत्नी’ इतिश्रुतेः । शक्तिशक्तिमतोरभेदाच्च । अनेनाग्नि दत्तायारावणस्पर्शाद्यभावःस्पष्टमेवोक्तः ॥ २० ॥ इत्येकविंशत्युत्तरशततमःसर्गः ॥ १२१ ॥ ति० एतद्वाक्यंश्रुत्वा युष्मदाज्ञयासीतामङ्गीकरोम्येवेत्युक्तंवाक्यंध्रुखा । ततः सीताग्रहणनियोगानुष्ठानानन्तरं । स० अनु भाषितं स्खवचनमनुसृत्यभाषितं । ततः तदनन्तरं । शुभतरं रामवाक्यस्यशुभखोलेः तदुच्युत्पादकवाक्येनप्रकृतोपयोगिनाऽति शुभेनभवितव्यमितिशुभतरमित्युक्तमितिभावः ॥ १ ॥ स० दीनं पितृनाशेन बददर्शनेन च । कैकेयींचाश्वस्य अनेन रामप्राज [ पा० ] १ ङ. झ. वैक्लब्यं. २ ङ. झ. ट. भास्करस्य ३ ङ, झ. ट. नविहातुंमयाशक्या ४ ख, घ, . झ. ज. ट. वचोहितं. ५ ग. घ. लोकपालानामेवं. ६ ङ. झ. ट. इत्येवमुक्त्वाविजयीमहाबलः, ख. इत्येवमुक्त्वावचनंमहाबलं. ७ ङ, च छ. झ. ट. राघवेणानुभाषितं, ८ ङ, च, छ, झ, ठ, ततःशुभतरं. ९ ख. ङ, च, छ. झ. ट. धर्मभृतांवर, वा. रा. २३५ . ड
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६१
दिखावट