सर्गाः ११८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४४९ सैषा युद्धगता चैव कृच्छे च महति स्थिता । दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥२९॥ [ विसृज्य शिबिकां तस्मात्पद्ममेवापसर्पतु । समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ]॥ ३० ॥ तदानय समीपं मे शीघ्रमेनां विभीषण । सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥ ३१ ॥ एवमुक्तस्तु रामेण सविमश विभीषणः ॥ रामस्योपानयत्सीतां सन्निकर्षे विनीतवत् ॥ ३२ ॥ ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः॥ निशम्य वाक्यं रामस्य बभूवुव्र्यथिता भृशम् ॥ ३३ ॥ कलत्रनिरपेदैश्च इङ्गितैरस्य दारुणैः॥ अप्रीतमिव सीतायां तर्कयन्ति स राघवम् ॥ ३४ ॥ लज्जया त्ववलीयन्ती खेषु गात्रेषु मैथिली ॥ विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ ३५ ॥ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ॥ रुरोदासद्य भर्तारमार्यपुत्रेति भाषिणी ॥ ३६ ॥ विस्सयाच्च प्रहर्षाच्च स्नेहाच पतिदेवता॥ उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३७ ॥ अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तैदानीम् ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥ अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥ रामेणसीतांप्रति रावणवधावधिप्रयासस्य निजापयशःप्रमार्जनप्रयोजकरवोक्तिपूर्वकं तचारित्रयुबिसंदेहरूपहेतूच्या तस्परिग्रहानभिरोचनवचनम् ॥ १ ॥ तां तु पार्श्वस्थितां प्रहां रामः संप्रेक्ष्य मैथिलीम् ॥ हृदयान्तर्गतंक्रोधो व्याहर्तुमुपचक्रमे ॥ १ ॥ एषाऽसि निर्जिता भद्रे शत्रु जित्वा मया रणे ॥ पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥ गतोस्म्यन्तममर्षीय धर्मणा संप्रमार्जिता ॥ अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ ३॥ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः ॥ ४ ॥ ॥ २८ ॥ कृच्छे वक्ष्यमाणाग्निप्रवेशे ।। २९-३१ ॥ | षणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशो- सविमर्शः कृच्छूशब्दप्रयोगासाशकः ॥३२-३३॥ | तरशततमः सर्गः ॥ ११७ ॥ व्यथायां हेतुमाह-कलत्रेति ॥ ३४ अवलीयन्ती संकुचन्ती ॥ ३५-३६ ॥ विस्मयात् अघटितरोम- अथ रामपरुषोक्तिः-तां तु पार्श्वस्थितामित्यादि । पुनर्दर्शनाद्विस्मयः । दर्शनेन | प्रहां लज्जयां नम्रां ॥ १ एषेति प्रत्यक्षेण दर्शयति प्रियस्य प्रहर्षः। नेदः । । । स्वाभाविकः । उदीक्षणकालिकमुखप्रसादमाह— | भद्रे इत्यसंबन्धनिवेदकसंबोधनं । पौरुषाद्यदनुष्ठेयं सौम्येति ॥ ३७ ॥ उदितपूर्णचन्द्रेत्यनेन कोपरक्तत्व- | तदेव कृतं । नतु त्वल्लभाय यत्नः कृत इति भावः अन्तं फलं उद्धृतौ निर्गुलितौ ॥ ३ मुक्तं। विमलशशाङ्कत्यनेन उत्तरकालिकक्षयः सूच्यते |॥ २ ॥ । भवामि ॥३८श्रीमद्रामायणभू- आमनः प्रभवामि स्खतस्रो ॥ ४ ॥ ।।। इति श्रीगोविन्दराजविरचिते स० मनःक्लमंसमपनुदत् यद्वदनं तदुदीक्ष्यशशाङ्कनिभाननासीदित्यन्वयः । एतेनसमपनुददित्यस्य समपानुददित्याख्याततयाव्या ख्यानंनागोजिभट्टस्यान्वयाप्रतिभासमूलं ॥ ३८ ॥ इतिसप्तदशोतरशततमःसर्गः ॥ ११७ ॥ . क. ङच. [ पा० १ . झ. सैषाविपदंताचैवकृच्छूणचसमन्विताः २ अयंश्चोकः ङ. झ. ट. पाठेषुष्यते३ . ] ङ. ट छ. झ. ट. तदासीत्. ४ ख. च. छ. ट. गीतद्देषो.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४९
दिखावट