सर्गः १०८] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४०९ अविक्लबमसंभ्रान्तमव्यग्रहृदयेक्षणम् । रश्मिसंचरनियतं प्रचोदय रथं द्रुतम् ॥ ११ ॥ कामं न त्वं समाधेयः पुरन्दररथोचितः॥ युयुत्सुरहमेकाग्रः सारये त्वां न शिक्षये ॥ १२ ॥ परितुष्टः स रामस्य तेन वाक्येन मातलिः प्रचोदयामास रथं सुरसारथिसत्तमः ॥ १३ ॥ अपसव्यं ततः कुर्वत्रावणस्य महारथम् ॥ चक्रोक्षितेन रजसा रावणं व्यवधानयत् ॥ १४ ॥ ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ॥ रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ १५ ॥ धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ॥ जग्राह सुमहावेगमैन्द्रं युधि शरासनम् । शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ १६ ॥ तदोपोढं महद्युद्धमन्योन्यवधकाङ्किणोः परस्पराभिमुख योद्दीप्तयोरिव सिंहयोः ॥ १७ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥ समेयुर्दीर्थं द्रष्टुं रावणक्षयकाङ्किणः॥ १८ ॥ समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः॥ रावणस्य विनाशाय राघवस्य जयाय च ॥ १९ ॥ ववर्षे रुधिरं देवो रावणस्य रथोपरि । वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः । महतृध्रकुलं चास्य भ्रममाणं नभःस्थले । येनयेन रथो याति तेनतेन प्रधावति ॥ २१ ॥ संध्यया चावृता लङ्का जपापुष्पनिकाशया । दृश्यते संप्रदीप्तेव दिवसेऽपि वसुंधरा ॥ २२ ॥ सनिर्घाता महोल्काश्च संप्रचेरुर्महाखनाः ॥ विषादयंस्ते रक्षांसि रावणस्य तदाहिताः॥ २३ ॥ रावणश्च यतस्तत्र संचचाल वसुंधरा । रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ २४॥ ताम्राः पीताः सिताऽवेताः पतिताः द्र्यरश्मयः ॥ दृश्यन्ते रावणस्याद्री पर्वतस्येव धातवः ॥२५ ? अविक्लवं अदीनं । असंभ्रान्तं अप्रमादं । अव्यग्रहृदये- | अपसव्यं अप्रदक्षिणं । प्रचक्रमुः चेरुः॥ २० । अस्य क्षणं अव्याकुलमनोनयनं । रश्मिसंचारनियतं निय- | रावणस्य रथो येन मार्गेण याति स तेन मार्गेण तरश्मिसंचारं । एतानि क्रियाविशेषणानि ॥ ११ ॥| महत् गृध्रकुलं नभःस्थले भ्रममाणं सत् प्रधावति न समाधेयः नोपदेष्टव्यः। अत्र हेतुःपुरन्दररथोचित स्म । अनेन रावणस्यासन्नमरणत्वं सूचितम् । इति । अभ्यस्तपुरन्दररथ इत्यर्थः । १२-१३ ॥ | तदुक्तं शकुनार्णवे-‘आसन्नमृत्योर्निकटे चरन्ति रावणस्य महारथमपसव्यं कुर्वन् स्वरथस्यापसव्यतां गृध्रादयो मूनि गृहोर्वभागे” इति ॥२१ जपापुष्प परिहरन्नित्यर्थः । चक्रोत्क्षिप्तेन रथचक्रोत्थापितेन । निकाशया संध्यया लङ्का आवृता । अतएव वसुंधरा रजसा रावणं व्यवधानयत् वैयबहितमकरोत् ।१४॥ । लङ्कपर्यन्तभूमिः रात्रावग्निना संप्रदीनेव दिवसेपि रथप्रतिमुखं सर्वथाभिमुखं । अवधूनयत् प्राहरत् | संप्रदीप्ता दृश्यत इत्यर्थः ।।२२। सनिर्घाता महोल्काः ॥ १५ ॥ धर्षणेत्यादिसार्धश्लोकमेकं वाक्यं । धैर्यं । संप्रचेरुः। ते उल्काः लिङ्गव्यत्ययः । रावणस्याहिताः रोषेण लम्भयन् रोषेण निवृत्तधैर्य इत्यर्थः। ऐन्द्रं प्रतिकूलाः सन्तः रक्षांसि विषादयन् व्यषायन् मातलिनानीतं शरासनं शरांश्च जग्राहेति योजना |॥ २३ ॥ यतः यत्र रावणो गतः तत्र वसुंधरा संच ॥ १६ । उपोढं प्रवृत्तं ॥ १७ ॥ द्वैरथं द्वाभ्यां | चाल । रावणसमीप एव भूकम्पो जात इत्यर्थः । रथाभ्यां प्रवर्ततं युद्धे ॥ १८ ॥ समुपेतुरिति । गृहीता इव बाहवः। कैश्चिदृहीता बाहवो यथा प्रहर्तुं अत्रोत्पातानां राघवजयसूचकत्वं रावणवधद्वारा | न क्षमन्ते तथाभूवन्नित्यर्थः ॥ २४ ॥ सिता अश्वे ॥ १९॥ दवेः पर्जन्यः । मण्डलिनो वाताः वात्याः ।' ताश्च सिताश्वेताः। पर्वतस्येवेति । पवतस्याङ्ग धातव ति० अविक्लबखादिचतुर्गुणयुक्तंयथातथादृतेरथुप्रचोदय । अविक्लवत्वमभीरुवं । असंभ्रान्तवंरणक्षोभादक्षुभितचित्तवं । अव्यप्रमदीयहृदयेक्षणंयत्र । रश्मिसंचारनियतं रश्मिसंचारेनैपुण्यं तत्तकालानुगुण्येन संयमनमोचनव्यवस्थावत्त्वं । स० प्रचोद- नक्रियान्वयद्वाराविक्लबखादीनांचतुर्णासारथौतकर्तरिसंगततामन्तव्या ॥ ११ ॥ ती० ऐन्द्रंशरासनं ‘इदिपरमैश्वर्यं 'इतिधातोरिन्द्रः परमात्मा । तदीयंनिजायुधैजग्राहेत्यर्थः ॥ १६ ॥ [q• ] १ ङ. झ. रावणस्याने. क. ग. ज. रावणस्या। मा , १२९
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१३
दिखावट