पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ~*~*~*~*~*~*~

    • ~*~**~*~*~*~*

~*Ravindranathamenon (सम्भाषणम्)

  • ~*~

~*~*~*~~*~*~*~*~*~*~*~*~*~*~*~*~*~*~* ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्मृतम् ॥ मुदान्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ४९ ॥ इस्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥ एकोत्तरशततमः सर्गः ॥ १०१ ॥ रामरावणयोर्युद्धावसरे मध्येलब्धावकाशेनलक्ष्मणेन रावणंप्रतियोधनम् ॥ १ ॥ तत्रलक्ष्मणेन रावणस्यध्वजसारथिधनु थांछेदनम् ॥ २ ॥ विभीषणेन गदया रावणरथहयहननम् ॥ ३ ॥ लक्ष्मणेन रावणेनविभीषणजिघांसया क्षिप्तायाः शक्तेः शरैः शकलीकरणम् ॥ ४ ॥ ततो रावणक्षिप्तयामहत्याशक्त्या वक्षसिगाढाभिहतेनलक्ष्मणेन मूच्र्छयाभूमौपतनम् ॥ ५ ॥ ततः कोपाद्मेणशरगणवर्षणे पुरस्थातुमशक्नुवतारावणेन पलायनम् ॥ ६ ॥ तैक्षिन्प्रतिहतेऽत्रे तु रावणो राक्षसाधिपः ॥ धृ च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १॥ मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २॥ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।। कार्मुकाद्दीप्यमानानि वज़साराणि सर्वशः ॥ ३॥ क्षुद्राः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ॥ निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥ तदनु राघवः श्रीमानुत्तमास्त्रविदां वरः ॥ जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥ तलिन्प्रतिहतेऽत्रे तु राघवेण महात्मना ॥ रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ ६ ॥ ततश्चक्राणि निष्पेतुर्भाखराणि महान्ति च ॥ कार्मुकानीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥ तैरासीद्गनं दीप्त संपतद्भिरितस्ततः॥ पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥८॥ तानि चिच्छेद बाणौधैश्चक्राणि स तु राघवः । आयुधानि च चित्राणि रावणस्य चमूमुखे ॥९॥ तदत्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः॥ विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।१० ॥ स विद्धो दशभिबणैर्महाकार्मुकनिस्सृतैः ॥ रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥ ततो विव्याध गात्रेषु सर्वेषु समितिंजयः । राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः॥ १२ ॥ एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । लक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥ १३ ॥ तैः सायकैर्महावेगै रावणस्य महाद्युतिः ॥ ध्वजं मनुष्यशीर्ष तु तस्य चिच्छेद नैकधा ॥ १४॥ थाचिषः'इति हलायुधः।। ४५--४८ ॥ तत् प्रसिद्धं । | कूटपाशाः कपटपाशाः ।। ३-७ । चन्द्रसूर्यग्रहैरि मुदान्वितः बभूवेति शेषः ॥ ४९ ॥ इति श्रीगोविन्द- | वेति । तरसमानाकारैरित्यर्थः । ८-१२ ॥ एत राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | स्मिन्नन्तरइति । एवं रावणं प्रहृत्य क्षणं रामे विश्रा युद्धकाण्डव्याख्याने शततमः सर्गः ॥ १०० ॥ म्यति सतीत्यर्थः । लक्ष्मणः पूर्वं युद्धे प्रवृत्तो मध्ये रामेण युद्धकरणावसरप्रतीक्ष इत्यर्थः । एवमव्य अथ लक्ष्मणस्य शक्त्या पतनं–तस्मिन्नित्यादि । ख्याने कथमन्येन युध्यमानमन्यो युध्येतेति महान्दोषः क्रोधाश्चात्रमनन्तरमित्यत्रापि चक्र इत्यनुषज्यते ।१ | स्यात् ॥ । १३ ॥ गृहीतानां सप्तबाणानां विनियोग किं तदत्रमित्यपेक्षायामाह-मयेनेति । रौद्र रुद्रदेव- प्रकारमाह-तैः सायकैरित्यादिश्लोकत्रयेण ॥ तैः ताकं ॥ २ ॥ ततः शूलानीत्यादिश्लोकद्वयमेकान्वयं । सायकैरिति षष्ठयथैतृतीया । तेषां सायकानां मध्ये ति० मनुष्यः शीर्षेयस्यतम् । मनुष्यशीर्ययुक्तमित्यर्थइत्यन्ये ॥ १४ ॥ [ पr० ] १ क.--ट. र्महात्मा. २ च, छ, ज, तदत्रनिहतंड9रावणो. ३ क्रोधेतंद्विगुणं. ४ ध. निहतंघोरं. ५ ङ. च. छ. प्र. आ. ट. भीमं