सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६

मुहूर्तादृब्धसंज्ञस्तु महापाश्च महाबलः । अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥ १० ॥ जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे । अक्षराजं गवाक्षी च जघान बहुभिः शरैः॥ ११ ॥ जाम्बवन्तं गवाक्षे च स दृष्ट्वा शरपीडितौ ॥ जग्राह परिघं घोरमङ्गदः क्रोधमूर्चिछतः ॥ १२॥ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् । दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ १३ ॥ द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् । मैहापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ॥१४ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५ ॥ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् । तलेनाभ्यहनत्स्क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥ स तु क्रुद्धो महावेगो महापाव महाद्युतिः ॥ करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७ ॥ तं तैलधौतं विमलं शैलसारमयं दृढम् । राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ १८॥ तेन वामांसफलके भृशं प्रत्यवपादितम् । अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ १९ ॥ स वीरो वज़संकाशमङ्गदो मुष्टिमात्मनः संवर्तयत्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥ २० ॥ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयंप्रति । इन्द्राशनिसमस्पर्श स मुद्धिं विन्यपातयत् ॥ २१ ॥ तेन तस्य निपातेन राक्षसस्य महामृधे ॥ पफाल हृदयं चाशु सँ पपात हतो भुवि ॥ २२ ॥ तसिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ॥ अभवच्च महान्क्रोधः समरे रावणस्य तु ॥ २३ ॥ वानराणां चं हृष्टानां सिंहनाँदश्च पुष्कलः ॥ स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ॥ महेन्द्रेणेव देवानां नांदः समभवन्महान् ॥ २४॥ अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महप्रणादम् ॥ श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९॥ स्त्वित्यादिश्लोकद्वयमेकान्वयं । अक्षराजः जाम्बवान् | पितुस्तुल्यपराक्रम इत्यनेन संबन्धः । संवर्तयत् तेन सहितः सर्वैराजः गवाक्षः। जाम्बवन्तं गवाक्ष | समवर्तयत् । भ्रामयामासेत्यर्थः । २०--२३ ॥ चेत्युत्तरत्र वक्ष्यमाणत्वात् ॥ ८-–१० ॥ अक्षराजं | स्फोटयन् दलयन् । वानराणां च सिंहनादः समभ जाम्बवन्तं त्रिभिर्बाणैराजघान । गवाक्षे च बहुभिः | वत् । महेन्द्रेण सह देवानां नाद इव वानराणां च शरैर्जघानेत्यन्वयः ॥ ११--१२ । । तस्याङ्गद इत्या- | देवानां च नादः समभवदित्यर्थः । एतच्चानन्तरश्लोके दिश्लोकद्वयमेकान्वयं । दूरस्थितस्य तस्य वधार्थमि- | स्फुटीभविष्यति ।। २४-–२५ ॥ इति श्रीगोविन्द त्यन्वयः । १३--१७ ॥ तैलधौतं प्रतिदिनं तैलसे | राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने चनान्निष्कल्मषं । शैलसारमयं तद्वत्कठिनमित्यर्थः । युद्धकाण्डव्याख्याने एकोनशततमः सर्गः ।। ९९ ॥ दृढं अशिथिलं ॥ १८--१९ ॥ आमन इत्यस्य ति० तस्यरक्षसोहस्तात् सशरंधनुः चात् एकंहस्तंशिरस्त्राणं चापातयत् । अतएवाग्रेवक्ष्यति-एकेनकरेणेति ॥ १५ ॥ ति० मोक्षयामास मोयीचकार ॥ १९ ॥ ती० संवर्तयत् समवर्तयत् बबन्धेत्यर्थः । स० संवर्तयत्सुसंक्रुद्धइतिपदमेकं । संवर्तयं- श्चासौसुसंक्रुद्धधसः। विन्यपातयत् ॥ २०-२१ ॥ ति० वानराणांसिंहनादः लङ्कांस्फोटयन्निवउदभूदितिशेषः । इन्द्रेणसह देवानामिव अङ्गदेनसहवानराणांसिंहनादःसमभवत् ॥ २४ ॥ इयेकोनशततमः सर्गः ॥ ९९ ॥ T पा० 1 १ क, घ. ङ. च. झ. ट. महापार्श्वय. २ ग, निपपात ३ ख. ग, ङ, झ• अ. ट. प्रहृष्टानां . ४ ङ. झ• नादःसुपुष्कलः