पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ रक्षसा तेन बाणौधैर्निकृत्ता सा सहस्रधा ॥ निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १३ ॥ तां तु भिनां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्चिछतः ॥ सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥१४ शरैश्च विददरैनं शूरः पैरपुरंजयः॥ १५॥ स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ॥ परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १६ ॥ तस्माद्धतहयाद्वीरः सोवप्लुत्य महरौत् ॥ गदां जग्राह संक्रुद्धो राक्षसोथ महोदरः ॥ १७ ॥ गदापरिघहस्तौ तौ युधि वीरौ समीयतुः । नर्दन्तौ गोवृषपप्रख्यौ घनाविव सविद्युतौ ॥ १८ ॥ ततः क्रुद्धो गदां तसै चिक्षेप रजनीचरः ॥ ज्वलन्तीं भास्कराभासां सुग्रीवय महोदरः ॥ १९ ॥ गदां तf सुमहाघोरामापतन्तीं महाबलः ॥ सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे । आजघान गदां तस्य परिघेण हरीश्वरः॥ । २० ।। ऍपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २१ ॥ ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ॥ आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २२ ॥ स तमुद्यम्य चिक्षेप सोष्यन्यां व्याक्षिपद्दम् । भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २३ ॥ ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः । तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २४॥ जनतुस्तौ तदाऽन्योन्यं नेदंतुश्च पुनः पुनः।। तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २५ ॥ उत्पेततुस्ततस्तूर्णं जन्नतुश्च परस्परम् ॥ भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ । जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ ॥ २६ ॥ औजहार ततः खङ्गमदूरपरिवर्तिनम् । राक्षसश्चर्मणा सार्ध महावेगो महोदरः ॥ २७ ॥ तथैव च महाखङ्गं चर्मणा पतितं सह ॥ जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २८ ॥ तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् । उद्यतासी रणे हृष्टैौ चैंधि शस्त्रविशारदौ ॥ २९ ॥ दक्षिणं मण्डलं चोभौ सुतृणं संपरीयतुः । अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ३० ॥ स तु शूरो महावेगो वीर्यलाघी महोदरः । महाचर्मणि तं खङ्गं पातयामास दुर्मतिः ॥ ३१ ॥ गृध्रचक्रे गृध्रसमूहः ॥१३-१४ । शरैरित्यर्थं । शूरः ॥ १९॥ गदां दृष्ठेति शेषः । समुद्यम्य । परिघमिति महोदरः एनं च सालं च शरैः विददरेत्यन्वयः । सिद्धं ॥ २० ॥ पपात स गदोद्भिन्न इत्यर्थ । ॥१५॥। सः सुग्रीवः । आविध्येति । आदायेति शेषः । उभावपि परस्पराभिहतौ विशीणौ पेततुरिति भावः तस्य महोदरस्य दर्शयन् । पाणिलाघवमिति शेषः ॥ २१--२९ । दक्षिणं प्रदक्षिणं चकारात् सव्यं ॥ १६--१८॥ भास्कराभासां भास्करवद्भासमानां च । सुतूर्णं संपरीयतुः अकुर्वतां ॥ ३० ॥ वीर्येण स० चुभ्रचकं शिलायाः शकलीभवात् ॥ १३ ॥ स० गोवृषप्रख्यौ वृषभश्रेष्ठसमौ ॥ १८ ॥ ती० गदापपात । सपरिघउ- द्भिन्नइत्यर्थः ॥ २१ ॥ स० उद्यतासीरणइतिपदमेकं । उद्यतास्योः ईरणं परस्परंकंपनंतस्मिन्प्रदृथै । युद्धे विशारदौ । अतो न रणपुनरीरणं ॥ २९ . शि० ओः रुद्रस्येवभाययोस्तौ उभौ सुग्रीवमहोदरौ ॥ ३० ॥ स० दुर्मतिः । असिरन्तर्गच्छेदितिज्ञान हीनः ॥ ३१ [ पा० ] १ ङ. झ. ट. चिक्षेपतंसचिच्छेदनैकधा. २ ङ. च. अ. ट, परबलार्दनं झ. परबलार्दनः, ३ ङ. झ. पपाततर साभिन्नः, ४ ङ. च. छ. झ. ज. ट. नदन्तौच. ५ ङ, च, छ, झ. ट. मासाय ६ ङ. --ट. जहारचतदखी७ छ. अ. चर्मखङ्गविशारदौ ङ, झ. युद्धे शत्रविशारदौ.