३५६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ । घोरैर्विव्यधतुर्बाणैः क्रुतभाषावुभौ जये ॥ ३७ ॥ ततः समरकोपेन संयुक्तो रावणात्मजः॥ विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥ ३८ ॥ अयोमुखैस्त्रिभिर्विद्ध राक्षसेन्द्रं विभीषणम् । एकैकेनाभिविव्याध तान्सर्वान्हरियूथपान् ॥ ३९ ॥ तस्मै दृढतरं क्रुद्धो जघान गदया हयान् । विभीषणो महातेजा रावणेः स दुरात्मनः ॥ ४० ॥ स हताश्वादवप्लत्य रंथान्निहतसारथेः। रथैशक्तिं महातेजाः पितृव्याय मुमोच ह ॥ ४१ ॥ तामापतन्तीं सप्रेक्ष्य सुमित्रानन्दवर्धनः । चिच्छेद निशितैर्बणैर्दशधा साऽपतद्भुवि ॥ ४२ ॥ तस्मै दृढधनुः क्रुद्धो हताश्वय विभीषणः। । वङ्गस्पर्शसमान्पञ्च ससजरसि मार्गणान् ॥ ४३ ॥ ते तस्य कार्यं निर्भिद्य रुक्मपुङ्गा निमित्तगाः। बभूवुलोहितादिग्धा रक्ता इव महोरगाः ॥ ४४ ॥ स पितृव्याय संक्रुद्ध इन्द्रजिच्छरमाददे ॥ उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ ४५ ॥ तं समीक्ष्य महातेजा महेषं तेन संहितम् । लक्ष्मणोष्याददे बाणमन्यं भीमपराक्रमः ॥ ४६ ॥ कुबेरेण खयं स्खप्ने खंडू दत्तं महात्मना ॥ दुर्जयं दुर्विषखं च सेन्ट्रैरपि सुरासुरैः॥ तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः ॥ विकृष्यमाणे बलवत्क्रौञ्चविव चुकूजतुः ॥ ४८ ॥ ताभ्यां तौ धनुषी श्रेष्ठे संहितौ सायकोत्तमौ । विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ ४९ ॥ तौ भासयन्तवाकाशं धनुर्धा विशिखौ च्युतौ ॥ मुखेन मुखमाहत्य संनिपेततुरोजसा ॥ ५० ॥ सन्निपातस्तयोरासीच्छरयोर्वोररूपयोः । सधूमविस्फुलिङ्गश्च ततो निदरुणोऽभवत् ॥ ५१ ॥ तौ महाग्रहसंकाशावन्योन्यं सन्निपत्य च ॥ सेग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ॥ ५२ ॥ शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि । श्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥ ५३ ॥ सुसंरब्धस्तु सौमित्रिरत्रं वारुणमाददे ॥ ५४ ॥ रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः । तेन तद्विहतं वस्त्रं वारुणं परमादुत ॥ ततः क्रुद्धो महातेजा इन्द्रजित्समितिंजयः ॥ आग्नेयं संदधे दीनं स लोकं संक्षिपन्निव ॥ ५६ ॥ सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ॥ ५७ ॥ अखं निवारितं दृष्ट्वा रावणिः क्रोधमूछितः॥ आसुरं शत्रुनाशाय घोरमत्त्रं समाददे ॥ ५८ ॥ त्यर्थः ॥ ३५–३६ ॥ जये कृतभावावित्यन्वयः |॥ ४५ ॥ तं समीक्ष्येत्यादिश्लोकद्वयमेकान्वयं । ॥ ३७-४० । रथशक्तिं रथेऽवस्थितां शक्तिं | महामना अप्रमेयबुद्धिना । भाविवृत्तान्तज्ञेनेति ॥ ४१-४२॥ दृढधनुः दृढधन्वा । समासान्त | यावत् ।। ४६-४९ । सन्निपेततुः संघर्षे प्राप्त विधेरनित्यत्वात्साधुः ।४३।। निमित्तगाः लक्ष्यगाः ।। ५० ॥ तज्ज्ञः सन्निपातजः ।। ५१-५५ ॥ संक्षि- वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः” इति | पन् संहरन् ॥ ५६ ॥ सैौरेण सूर्यदेवताकेन । निघण्टुः ॥ ४४ ॥ रक्षसां मध्ये आदद इत्यन्वयः ‘सूर्यतिष्यागस्य’ इत्यादिना यलोपः ।। ५७-५८ ।। ति० अमितारमना अपरिच्छिन्नमाहात्म्येन । ॥ ति० महाग्रहः अङ्गरकशन्यादिः ॥ ५२ ॥ ति० त्रीडितौ खस्खप्रयुक्त शरस्यमोघस्वदर्शनेनसंजातलजौ । यद्यपिरावणेरेवत्रीडायुक्ता । लक्ष्मणस्यतुतद्वाणनिवारणायप्रयोजुःसार्थक्यसत्त्वेनीडाभावः । तथापितन्निराकरणपूर्वकंरिपुवधपर्यन्तव्यापारेणोपादानात्तदभवेनतस्यापिलजेतिबोध्यं । छत्रिन्यायेनद्विवचनप्रयोगइतिकतकः । [ पा० ] १ ख• संक्रुद्धो. २ ख. ङ. च. झ. ध. ट. रथान्मथितसारथिः. क. ग. घ. रथान्निहतसारथिः. ३ क ख. ङ. च. ज.-ट. अथशतं४ . ख. घ. ज. नन्दिवर्धनः, ५ ख. ध. च. ब. बाणैःशतधा. ६ ख्- ङ. च. झ. ट. भित्त्वातत्. ७ क. ख. ङ. झ. पितृव्यस्य. ८ ङ, झ. अ. ट. महबलं. ९ क, ख, घ, ङ. च. झ. अ, ट, यद्दतममितात्मना . १० क. रजसा ११ ख. च. तत्राग्निः, ग. ततोनिः.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६०
दिखावट