३५४ श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ एकनवतितमः सर्गः ॥ ९१ ॥ लक्ष्मणेनेन्द्रजिद्वधः ॥ १ ॥ ९० स हताश्वो महातेजा भूमौ तिष्ठनिशाचरः । इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा ॥ १ ॥ तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिभृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २ ॥ निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ॥ भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ॥ ३ ॥ ततस्तात्राक्षसान्सर्वान्हर्षेयत्रावणात्मजः ॥ स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥४॥ तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः ॥ नेह विज्ञायते खो वा परो वा राक्षसोत्तमाः॥ ५॥ धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । ॥ अहं तु रथमास्थाय आगमिष्यामि संक्रुगम् ॥ ६ ॥ तथा भवन्तः कुर्वन्तु यथेमे काननौकसः ॥ नैं युध्येयैर्द्धरात्मानः प्रविष्टे नगरं मयि ॥ ७ ॥ इत्युक्वा रावणसुतो वञ्चयित्वा वनौकसः॥ प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ ८॥ स रथं भूषयित्वा तु रुचिरं हेमभूषितम् ।। नासासिशतसंपूर्ण युक्तं परमवाजिभिः ।। ९ ॥ अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना । आरुरोह महातेजा रावणिः समितिंजयः ॥ १० ॥ स राक्षसगणैर्मुख्यैवृतो मन्दोदरीसुतः॥ निर्ययौ नगरात्तूर्ण कृतान्तबलचोदितः ॥ ११॥ सोभिनिष्क्रम्य नगरादिन्द्रजितुंपरवीरहा । अभ्ययाज्जघनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ १२॥ ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । वानराश्च महावीर्या राक्षसश्च विभीषणः । विसयं परमं जग्मुर्लाघवात्तस्य धीमतः ॥ १३ ॥ रावणिश्चापि संक्रुद्धो रणे वानरयूथपान् । पातयामास बाणौधैः शतशोथ सहस्रशः ॥ १४ ॥ स मण्डलीकृतधनू रावणिः समितिंजयः॥ हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः॥ १५ ॥ ते वध्यमाना हरयो नाराचैर्भामविक्रमाः॥ सौमित्रिं शरणं प्राप्तः प्रजापतिमिव प्रजाः ॥ १६ ॥ ततः समरकोपेन ज्वलितो रघुनन्दनः । चिच्छेद कार्मुकं तस्य दर्शयन्पाणिलाघवम् ॥ १७ ॥ सोन्यत्कार्मुकमादाय सज्यं चक्रे त्वरनिघ ॥ तदष्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ १८ ॥ अथैनं छिन्नधन्वानमाशीविषविषोपमैः॥ विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः॥ १९ ॥ ते तस्य कार्यं निर्भिद्य महाकार्मुकनिस्सृताः॥ निपेतुर्धरणीं बाणा रक्ता इव महोरगाः । ॥ २० ॥ अथेन्द्रजितद्वधः-स हताश्व इत्यादि । १ ॥ |॥ ४--५ ॥ मोहनाय मन्निर्गमनापरिज्ञानाय विजयेनेति प्रयोजने तृतीया । विजयायेत्यर्थः ।। ६--८ । स रथमित्यादिश्लोकद्वयमेकान्वयं भूष- अभिनिष्क्रान्तौ बभूवतुरिति शेषः । गजवृषाविव | यित्वा स्वतेजसा भूषयित्वा। आप्तोपदेशिना हितो गजश्रेष्ठाविव । यद्वा किंचिद्धीनबलव।दिन्द्रजितो | पदेशिना ॥ ९--१२॥ तत इत्यादिसार्धश्लोक एका वृषभतुल्यत्वं ॥ २ ॥ संपतन्तः परितः संचरन्त | न्वयः । ततः तस्माद्युद्धप्रदेशात् ॥ १३-१७ ।। इत्यर्थः ॥ ३ ॥ स्तुवानः स्तुवन् । आर्षः शानच् | त्वरन्निवेति । इवशब्दो वाक्यलंकारे । निरकृन्तत ती० विजयेन विजयहेतुना। अभिनिष्क्रान्तौ अभिमुखवधावतां ॥ २ ॥ शि० वनौकसोवञ्चयित्वा तज्ज्ञानविषयखम प्राप्येत्यर्थः । रथहेतोर्लङ्कांविवेश ॥ ८ ॥ ति० हयज्ञेन अश्वहृदयज्ञेन । स० आप्तश्चासौ उपदेशोस्यास्तीत्याप्तोपदेशी । साम- [ पा० १ ङ. च. छ. झ. ट. तुन्वानो. क. ख. स्वयंप्रहर्षमाणश्च २ घर हृष्टाभवन्तो. ३ ड. झ. अ. ट. संयुगे. ४ क्र. ज. नबुध्येयुः. ५ ग. ङ. झ. ट. र्महात्मानः. ६ क, चापासि. ७ ङ. च. झ. शरसंयुक्तं . ८ ङ. झ. ट. परमोजसा. ९ च. ज. ट, शितैर्बाणैः
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५८
दिखावट