३२८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् १ १
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर । सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ २८ ॥ न हन्तव्याः स्त्रियश्चेति यह्वीषि प्लवङ्गम । पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥ २९ ॥ | तौटकाया वधं रामः किमर्थं कृतवान्पुरा । तदहं हन्मि रामस्य महिषीं जनकात्मजाम्]॥३०॥ तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा॥ शितधारेण खड्रेन निजघानेन्द्रजित्खयम् ॥ ३१ ॥ यज्ञोपवीतमार्गेण भिन्न तेन तपस्खिनी । सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना । तामिन्द्रजित्स्खयं हत्वा हनुमन्तमुवाच ह ॥ ३२ ॥ मया रामस्य पश्येमां कोपेन च निपूदिताम् । एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥ ३३॥ ततः खड्रेन महता हत्वा तामिन्द्रजित्खयम् ॥ हृष्टः स रथमास्थाय विननाद महाखनम् ॥ ३४ ॥ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।व्यादितास्यस्य नदतस्तेंडुगं संश्रितस्य च ॥ ३५ ॥ तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः॥ तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सँहसा प्रदुद्रुवुः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥ ह्यशीतितमः सर्गः ॥ ८२ ॥ इन्द्रजितु मायासीताच्छेदनानन्तरं हनुमतावानरान्प्रति सीतानिधनाद्युद्धस्यवैफल्योक्त्या प्रतिनिवर्तनपूर्वकं तैस्सह शमसमीपगमनम् ॥ १ ॥ अत्रान्तरेलब्धावकाशेनेन्द्रजिता निकुंभिलामेत्ययागारंभः ॥ २ ॥ श्रुत्वा तु भीमनिह्रदं शक्राशनिसमखनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥ तानुवाच ततः सर्वान्हनुमान्मारुतात्मजः । विषण्णवदनान्दीनांस्रस्तान्विद्रवतः पृथक् ॥ २ ॥ कसद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः॥ त्यक्तयुद्धसमुत्साहाः शूरत्वं कनु वो गतम् ॥ ३ ॥ पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ॥ शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४॥ २८ ॥ न हन्तव्या इति यत् ब्रवीषि तत्रोत्तरं | ण्णरूपाः अत्यन्तं विषण्णाः ॥ ३६ ॥ इति श्रीगो श्वण्विति वाक्यशेषः ॥ २९-३१ ॥ यज्ञोपवीत- विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा मार्गेण भिन्ना । मार्गशब्दः प्रकारवचनः । यज्ञोपवी- | ख्याने युद्धकाण्डव्याख्याने ’ एकाशीतितमः तधारणप्रकारेण भिन्नेत्यर्थः । यज्ञोपवीतमादाय | सर्गः ॥ ८१ ॥ मिनेति पाठान्तरं । पूर्वं मूर्धजेषु गृहीतामादाय । यज्ञोपवीतभिन्ना यज्ञोपवीतं यथा भवति तथा भिन्ना । । अथेन्द्रजितो निकुम्भिलायां होमारम्भः-श्रुत्वे यज्ञोपवीतप्रकारेण भिन्नेत्यर्थः ॥ ३२-३४ ॥ त्यादि । । शक्राशनिसमस्वनं शक्राशनिस्वनसममित्यर्थः व्यादितास्यस्य व्यात्तास्यस्य । तदुर्गे व्यूहीकृतराक्षस- | ॥ १-–२ । विद्रवध्वे विद्रवथ । आमनेपदमार्ष परिवेष्टनरूपं ।। ३५ ॥ हृष्टरूपं अत्यन्तहृष्टं । विष ॥ ३ ॥ अनुव्रजध्वं अनुव्रजत । पदव्यत्ययआर्षः रामानु० रामस्येमां रामसंबन्धिनीं । राममहिषीमितियावत् ॥ ३३ ॥ ति० तदुर्गे खेचररथरूपंदुजें ॥ ३५ ॥ इत्येकाशी तितमः सर्गः ॥ ८१ ॥ [ पा० ] १ अयंलोकः क. ख. ग. च. छ. ज. पाठेषुदृश्यते. २ ङ. छ. झ. ध. ट. पश्येमांप्रियांशश्ननिपूदितां. ख. पश्येमांसीतांकोपेनसूदितां• ३ ख. तद्युद्धे. ४ ख. छ. अ. ट, समभिप्रदुद्रुवुः