पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३२५ घनान्धकारे तिमिरे शरवर्षमिवाङ्कतम् । स ववर्षे महाबाहुर्नाराचशरवृष्टिभिः ॥ स रामं सूर्यसंकाशैः शरैर्दतचरो भृशम् ।। विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः २८ ॥ तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ॥ हेमपुङ्घनरव्याघ्रौ तिग्मान्मुमुचतुः शरान् । अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः॥ निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ।। ३० ॥ अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । तानिघून्पततो भयैरनेकैनिंचकृन्ततुः ॥ ३१ ॥ यतो हि ददृशाते तौ शरान्निपततः शितान् । ततस्तु तौ दाशरथी ससृजतेऽत्रमुत्तमम् ॥ रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् । विव्याध तौ दाशरथी लध्वस्रो निशितैः शरैः॥३३॥ तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः ॥ बभूवतुर्दाशरथी पुष्पिताविधं किंशुकौ ॥ ३४ ॥ नाय वेद गतिं कश्चिन च रूपं धनुः शरान् । न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३५ ॥ तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥ लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् ॥ ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३७ ॥ तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ ३८ ॥ नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९॥ अस्यैव तु वधे यत्नं करिष्यावो महाबल ॥ आदेक्ष्याघो महावेगानद्रानाशीविषोपमान् ॥ ४० ॥ तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ॥ राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४१ ॥ यथेष भूमिं विशते दिवं वा रसातलं वाऽपि नभःस्थलं वा । एवं निगूढोपि ममाग्नदग्धः पतिष्यते भूमितले गतासुः ॥ ४२ ॥ इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्युतः । वधाय रौद्रय नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ‘अशीतितमः सर्गः ॥ ८० ॥ ९ लिमयति ॥ २५–२९ ॥ पतगाः पक्षिणो भूत्वा । | यन्तं पलायमानं ॥ ३९ ॥ आदेक्ष्यावः प्रयोक्ष्यावः। तथा वेगवन्त इत्यर्थः । ३०-–३३ ॥ सुसंहितैः | अस्त्रान् अत्राणि । लिङ्गव्यत्यय आर्षः । ४०-४१ ॥ सुषु निर्मितैः ॥ ३४ ॥ अभ्रसंप्लवे मेघावरणे | भूमिं भूविवरं । विशते । आमनेपदमात्रं । दिवं ॥ ३५-३८ । प्रच्छन्नं युद्धभीत्या प्रच्छन्नं । पळा । स्वग ॥ ४२ ॥ प्लवगर्षभैः वृतः निरीक्षते । उपाय शि० घने निबिडे अन्धकारे दृष्टयुपघातके । तिमिरे तमसि ।। २७ । ति० दत्तवरैः वरदत्तैः २८ स० रक्षतीत्येव विश्वासस्तदीयोहमितिस्मृतिः । शरणागतिरेषस्यात् ” इत्याद्युक्तशरणागतिमान् । ति० अयुध्यमानखादिषट्प्रकाराणामपि सर्वरक्षउद्देशनब्रह्मात्रसंघानेवधोभव। । नतुतयुज्यतइत्यर्थः । अन्ततोविभीषणस्याधिनाशप्रसङ्गइत्याशयः ॥ ३९ ॥ ति० माययान्तर्हितमेनमेवहन्तुंघोरानाशीविषोपमानम्नाण्यादेक्ष्यावः । अदृष्टवधोमदेकसाध्यः । दृष्टस्यतुचधईषत्करोवानराणामपीत्या ह--राक्षस मिति । यदिदर्शनंस्यात्तदादृष्ट्या दर्शनमात्रेणहनुमदादयः एनंराक्षसंनिहनिष्यन्ति । दृष्ट्वानरयूथपाइत्यत्र तद्दर्शनोपा- योभारतेउक्तः “ इदमंभोगृहीतुराजराजस्यशासनत् । गुह्यकोऽभ्यागतःकश्चित्त्वत्सकाशमरिंदम । इदमैभःकुबेरस्तेम हराजः प्रयच्छति । अन्तर्हितानांभूतानांदर्शनार्थपरंतप। अनेनमृष्टनयनोभूतान्यन्तर्हितान्युत । भवान्द्रक्ष्यतियस्मैचप्रदास्यतिनरसच तिविभीषणवाक्येन ॥ ४१ ॥ रामानु० भूमिं भूविवरं । विशते । आत्मनेपदमापें । दिवं स्वर्गं। एतत् उपरितनलोकानामसु- पलक्षणं । रसातलं एतदधस्तनलोकानामुपलक्षणं ।। ४२ ॥ । इत्यशीतितमःसर्गः ।। प०J १ क, ख, घ, ङ. ज.-ट. शिलावर्षमिवा. २ ख. ग. ड. छ. झ. अ. ट. दंतधरैः३ ङ. छ. झ. ज, ट. शोणिताप्लुताः. ४ ङऊ. छ. झ. म. ट. दीप्यमानौ. ११