३२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६
- HARAJAJAJARK
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ॥ अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ १७ ॥ कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु ॥ न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ १८ ॥ चतुर्दशसहस्राणि रक्षेसां त्वत्पिता च यः त्रिशिरा दूषणश्चैव दण्डके निहता मया ॥ १९ ॥ स्खशितास्तव मांसेन गृध्रगोमायुवायसाः ॥ भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनैंखङ्गराः ॥ २० ॥ [सूधिरार्द्रमुख हृष्टा रक्तपक्षाण्डजाश्च ये । खे गता वसुधायां च भ्रमिष्यन्ति समन्ततः]॥ २१ ॥ राधैवेणैवमुक्तस्तु खरैपुत्रो निशाचरः । बाणौघानैश्चत्तस्सै राघवाय रणाजिरे ॥ २२ ॥ ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा ॥ निपेतुभुवि ते च्छिन्ना रुक्मपुङ्गवाः सहस्रशः ॥ २३ ॥ तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ॥ रक्षसः खरपुत्रस्य ब्रुनोर्दशरथस्य च ॥ २४ ॥ जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ॥ धनुर्मुक्तः खनोत्कृष्टः श्रूयते च रणाजिरे ॥ २५॥ देवदनवगन्धर्वाः किन्नराश्च महोरगाः॥ अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ २६ ॥ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते पॅरम् । कृतप्रतिकृतान्योन्यं क्षुरुतां तौ रणाजिरे ॥ २७ ॥ रामयुक्तांस्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे ॥ रक्षोमुक्तस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥२८॥ बाणौधैर्वितताः सर्वा दिशश्च जैदिशस्तथा ॥ संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ २९॥ ततः क्रुद्धो महबाहुर्धनुश्चिच्छेद ईक्षसः ॥ अष्टाभिरथ नाराचैः घृतं विव्याध राघवः ॥ ३०॥ भिंवा शरै रथं रामो रर्थवान्समपातयत् । विरथो वसुंधां तिष्ठन्मकराक्षो निशाचरः ॥ ३१॥ तैत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ।। त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ ३२ ॥ [ डैरवापं महच्छूलं रुद्रदत्तं भयंकरम् ॥ जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् । यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः ]।। ३३ ।। विभ्राभ्य तु महच्छूलं प्रज्वलत्तं निशाचरः । स क्रोधात्प्राहिणोत्तस्मै राघवाय मॅहाहवे ॥ ३४ ॥ तमापतन्तं ज्वलितं खरपुत्रकराच्युतम् । धैरैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ॥ ३५ ॥ स च्छेिनो नैकधा शलो दिव्यहाटकमण्डितः ॥ व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥३६॥ तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा । साधु साध्विति भूतानि व्याहरन्ति नभोगता ॥ ३७ ॥ तेनैव युधि वर्ततां । भवानिति शेषः ॥ १६ ॥ | कृतप्रतिकृतान्योन्यं कृतस्य प्रतिकृतं ययोस्तौ तादृश उत्तरोत्तरवादिनं । बहुप्रलापिनमित्यर्थः ॥ १७ ॥ | वन्योन्यं यस्मिन्युद्धकर्मणि तत्तथोक्तं । कुरुत युद्धेन विना प्रहारेण विना ।। १८-१९॥ स्वाशिताः | अकुरुतां । युद्धमिति शेषः ।। २७-–३० । वसुधां सुष्टु आशितवन्तः । २०-२४ ॥ ज्यातलयोः शब्दः | तिष्ठत् वसुधायामतिष्ठत् ॥ ३१ ॥। वसुधां वसुधायां ज्यातलयोः संघर्षजः शब्दः । स्खनोत्कृष्टः स्वनेऽ- |॥ ३२-३६ । तच्छूलमिति । नभोगता नभोग कृष्टः ॥ २५–२६ । विङ्गं वेधनं । वर्धते अवर्धत । तानि । “सुपां मुलुकू – इत्यादिना आकारादेशः ति० भित्वारणं भवेत्यर्थः। हखअश्वानित्यसंधिपाठः । वसुधास्थः अभूदिति शेषः ॥ ३१ ॥ ति० शूलोऽर्धर्चादिः ॥ ३४ ॥ [ पा० ] १ ख. घ. ज. राक्षसास्वत्पिताच२ क. ख. ङ.-अ. नखळुशाः ३ अयंलोकः क. ख. च. छ, अ. पाठेघदृश्यते. ४ क. ग. एवमुक्तस्तुरामेण. ५ ख. घ.-छ. झ. अ. मकराक्षो महाबलः६ ख. नसृजत्तस्मै. ७ क-छ. झ. अ. विच्छिन्नाःज. तेभिन्नाः च. छ. ज. ट. बलं. ९ ग. च. ज. कुर्वातीतौ. १० क. -घ. च. छ. विदिशस्तथा। ११ क. ग. घ. ङ. झ. संयुगे. १२ झ. भिवारीशरैरामोहख़अश्वानपातयत्, १३ घ. ड. ज. स. ट. रथादधानपातयत्. च. रथानश्वानपातयत्. १४ ग. अ. ट. वसुधास्थस्समकराक्षो. १५ क. उत्तिष्ठत्. १६ इदमर्घत्रयं क. ङ. च. छ. झ. अ. ट. पाठेघदृश्यते. १७ क. ग. घ. ड. झ. अ. ट. महात्मने. १८ घ. -छ. झ. ज. ट. बाणैश्चतुर्भिराकाशे. १९ ङ. झ. भिन्नो. कः छिन्नस्तुत्रिधा. १) -