३१४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तमापतन्तं संप्रेक्ष्य यूपाकं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्धली ॥ २९ ॥ गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः॥ आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥ ३० ॥ स गदाभिहतस्तेन चचाल च महाबलः॥ उद्यतां च पुनस्तस्य जहार द्विविदो गदम् ॥ [ तैया च गदया क्षिप्रं तयोरुरसि ताडयत् ॥ ३१ ॥ ऐतसिन्नन्तरे वीरो मैन्दो वानरयूथपः ॥ यूपाशं ताडयामास तलेनोरसि वीर्यवान् ॥ ३२॥ [ ऍतसिनन्तरे मैन्दो द्विविदाभ्याशमागमत् ॥] तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरखिनौ ॥ चक्रतुः समरे तीव्रमाकर्षीत्पाटनं भृशम् ॥ ३३ ॥ द्विविदः शोणिताक्षी तु विददार नखैर्मुखे ॥ निष्पिपेष च वेगेन क्षितावाविध्य वीर्यवान् ॥ ३४ ॥ यूपाक्षमपि संक्रुद्धो मैन्दो वानरयूथपः । । पीडयामास बाहुभ्यां स पपातू हतः क्षितौ ॥ ३५॥ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ॥ जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥ ३६ ॥ आपैतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ ३७ ॥ अथोत्कृष्टं महावीर्येर्लब्धलकैः इवङ्गमैः ॥ निपातितमहावीरां दृष्ट्वा रक्षधम् ततः॥ कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ ३८ ॥ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ ३९॥ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद्वितीयेन्द्रधनुर्यथा ॥ ४० ॥ आकर्णकृष्टमुक्तेन जघान द्विविदं तदा ॥ तेन हाटकपुट्टेन पत्रिणा पत्रवाससा ॥ ४१ ॥ सहसाऽभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥ ४२ ॥ मैन्दस्तु भ्रातरं दृष्ट्वा भगं तत्र महाहवे । अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥ ४३ ॥ तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः॥ बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः॥४४॥ सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् ॥ आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ ४५ ॥ स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः॥ ४६ ॥ अङ्गदो मातुलौ दृष्ट्वा पॅतितौ तु महाबलौ ॥ अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ ४७ ॥ पलसमानकान्तिमित्यर्थः । महाबलः प्रजहुः॥२५- स्थानीयमैरावतं । ऐरावतं नाम दीर्धेन्द्रधनुः। ३२ ॥ प्लवङ्गाभ्यां मैन्दद्विविदाभ्यां । आकषोत्पा - | * इन्द्रायुधंशक्रधनुस्तदीर्घसृजुरोहितं । ऐरावतं च टन आकर्षणताडने । अन्योन्यमिति शेषः ।। ३३-~ इति वैजयन्ती । एवंभूतं द्वितीयमिन्द्रधनुरिव स्थितं । ३६ ॥ आपतन्तीमित्यर्थ । सान्त्वयन् असान्त्व- | ऐरावतादिसंयोग उत्पातकाले भवति । अभूतोप- यत् ॥ ३७ ॥ अथेत्यादिसार्धश्लोक एकान्वयः ॥ | मावा ॥ ४० ॥ हाटकं स्वर्ण । पत्रिणा बाणेन । पत्र लब्धलकैः अप्रतिद्वन्द्विभिः ।। ३८-३९ । विद्युदैरा- | वाससा वासःस्थानीयकङ्कपत्रेण ॥ ४१ ॥ विप्रमुक्त- वताभ्यां आर्चिष्मत् । ज्यास्थानीया विद्युत् । बाण- | पदः शिथिलपविन्यासः । स्फुरन् चलन् । विह्वलः ती७ उत्कृष्टंरक्षः कुंभः । महावीर्योः तेजस्विभिः । लब्धलकैरप्रतिद्वन्द्वैः । प्लवङ्गमैर्निपातितमहावीरांचर्तुदृष्ट्वा रणेदुष्करंकर्मचक्रइति संबन्धः ॥ ३८ ॥ ति० तस्य कुंभस्य । तसशरंधनुः विद्युदैरावतसंबन्धतोचिष्मत् भासमानं द्वितीयेन्द्रधनुर्यथा परमिन्द्रधनुरिव भूयःशुशुभे । विद्युच्छरस्थानीया । ऐरावतोऽभ्रमातङ्गः । तस्येन्द्रधनुष संबन्धात् ॥ ४० ॥ [ पा० ] १ ग. जग्राहबलवान्बली. २ इदमर्घ क, ख, च, छ. पाठेषुदृश्यते ३ अयंलोकः ङ. झ. ट. पाठेघनश्यते. ४ इदमर्घ ङ. झ. ट. पाठेषुदृश्यते. ५ ख. विद्युताद्राक्षसान्दृष्ट्वाकुंभः . ६ ग. ङ. झ. ट. मथितौतुः ख• छ. अ. व्यथितौ- तुमहाहवे.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१८
दिखावट