सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २६९ ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि रौक्षसेन्द्रीः ॥ शृण्वनिनादं त्रिदशालयानां प्लवङ्गराजगृहविसितानाम् ॥ ७१॥ ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीणैः। असिन्हृते सर्वमिदं हृतं स्यात्सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ॥ विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ॥ कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ७३ ॥ हनुमांश्चिन्तयामास मतिमान्मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ७४ ॥ अङ्गं न्याय्यं मया कर्तु तैत्करिष्यामि सर्वथा ॥ भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥ ७५॥ मया हते संयति कुम्भकर्णं महाबले मुष्टिविकीर्णदेहे ॥ विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥ अथवा स्खयमध्येष मोझी प्राप्स्यति पॅर्थिवः । गृहीतोऽयं छेदि भवेत्रिदशैः सासुरोरगैः ॥ ७७ ॥ मन्ये न तावदात्मानं बुध्यते वानराधिपः ॥ शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ७८ ॥ अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ७९ ॥ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ॥ अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८०॥ तस्मान्मुहूर्त काञ्जिष्ये विक्रमं पार्थिवस्य तु ॥ भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ८१ ॥ इत्येवं चिन्तयित्वा तु हनुमान्मारुतात्मजः ॥ भूयः संस्तम्भयामास वानराणां महाचमूम् ॥८२॥ स कुम्भकणोंथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम् ॥ विमानचर्यागृहगोपुरस्थैः ऍष्पाभ्यवधैरवकीर्यमाणः ॥ ८३ ॥ लाजगन्धोदवर्षेस्तु सिच्यमानः शनैः शनैः ॥ राजमार्गस्य शीतत्वात्संज्ञामाप महाबलः ॥ ८४ ॥ ततः स संज्ञामुपलभ्य कृच्छाद्धीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्ग विचिन्तयामास मुहुर्महात्मा ॥ ८५॥ एवं गृहीतेन कथं नु नाम शक्यं मया संप्रतिकर्तुमद्य ॥ तथा करिष्यामि यथा हरीणां भविष्यतीर्थं च हितं च कार्यम् ॥ ८६ ॥ सुग्रीवधारणकालिकसादृश्याय ॥ ७० ॥ उत्पाट्य | तावदित्यवधारणे । आत्मानमेव न बुध्यतइत्यर्थः। पथ्यं उद्धृत्य । त्रिदशालयानां स्वर्गिणां ॥ ७१॥ बलवान्कुं- | हितं ॥ ७८. --७९ ॥ छुच्छुगतः स्वामी भृत्येनावश्यं भकर्णं युद्धे पतितं सुग्रीवं किमर्थं हृतवानित्यत्राह |मोचनीय एवेत्याशङ्कयाह-—मया त्विति ।। ८० ॥ ततस्तमादायेति ।। ७२-७६ ॥ सासुरोरगैः सुरैः तावत् सुग्रीवागमनपर्यन्तं ॥ ८१ ॥ संस्तम्भयामास गृहीतोष्ययं मोक्ष प्राप्त शक्नोति । किं पुनरनेन राक्ष- सापसदेनेति भावः ।। ७७ । तर्हि मोचयित्वात्मानं | गमनान्निवर्तयामास ।। ८२।। पुष्पायवधैः श्लाघ्यपु किमिति न निवर्तत इत्यत्राह-मन्य इत्यादिना । । ष्पवृष्टिभिः।।८३-८५। संप्रतिकर्तृसम्यक् प्रतिकर्ते । थैतत्रोक्तिरितिसंभवात् ॥ ६४ ॥ ति० लाजगन्धोदवर्यसिच्यमानः दैवगत्यामोहनिवृत्तये । सुग्रीवइतिशेषः । स० लजगन्धो दवणैः लाजमत्रोशीरं । गन्धसाहचर्यात् । सिच्यमानइतिखारस्याच्च । ५ उशीरेलाजमुद्दिष्ट ” इतिविश्वः ॥ ८४ ॥ स० पुररा [ पा० ] १ ङ. झ. अ. ट. ततस्तमादायः २ ग. घ. ङ. झ. ट. राक्षसेन्द्रः ड, छ. झ. ट. करिष्याम्यसंशयं. ४ ङ. झ. ट. वानरः. ५ ज. युधिभवेत्. ६ ङ. झ. ट. मोक्षितस्य क. ख. ध. च. छ. ज. पार्थिवस्यनः ७ ख. सलाजपुष्पैः ८ ङ. छ. झ• ट, रभिपूज्यमानः