पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४१ ततो गत्वा दशग्रीवमासीनं परमासने ॥ ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ ८६ ॥ प्रबुद्धः कुम्भकर्णीयं भ्राता ते राक्षसर्षभ ॥ कथं तत्रैव नियतु द्रक्ष्यस्येनमिहागतम् ॥ ८७ ॥ रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ॥ द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ ८८ ॥ तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।। कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ८९ ॥ द्रष्टुं त्वां कान्ते राजा सर्वराक्षसपुङ्गवः ॥ गमने क्रियतां बुद्धिभ्रतरं संप्रहर्षय ॥ ९० ॥ कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ॥ ९१॥ प्रक्षाल्य वदनं हृष्टः स्नातः पुंरमभूषितः पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ९२ ॥

  • तस्ते वैरितास्तस्य राक्षसा रावणाज्ञया ॥ पैद्यकुम्भांश्च विविधान्क्षिप्रमेवोपहारयन् ॥ ९३ ॥

पीत्वा घटसहस्त्रे द्वे गमनायोपचक्रमे ।। ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः॥ कुम्भकर्णं बभौ हृष्टः कालान्तकयमोपमः ॥ ९४ ॥ भ्रातुः स भवनं गच्छत्रक्षोगणसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ९५॥ स राजमार्ग वपुषा प्रकाशयन्सहस्ररश्मिर्धरणीमिवांशुभिः ॥ जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव खयंभुवः ॥ ९६ ॥ तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ॥ दृष्ट्वाप्रमेयं गिरिशङ्गकल्पं वितत्रसुस्ते हरियूथैपालाः॥ ९७ ॥ केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्यथिताः पतन्ति ॥ केचिद्दिशः स व्यथिताः र्पयान्ति केचिद्भयार्ता भुवि शेरते स ॥ ९८ ॥ तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुदुविरे ततस्ततः ॥ ९९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठितमः सर्गः॥ ६०॥ ॥ ८५ ॥ गत्वा रावणनिवेशनं गत्वा । तत ऊचुरित्य- | रक्षोबलं राक्षससेना ॥ ९५ ॥ तत्र राजमार्गे। अज• न्वयः ॥८६॥ तत्रैव निर्यातु वा इहागतमेनं द्रक्ष्यसि | लिमालया पौरजनकृतयेति शेषः ॥ ९६ ॥ यूथपाला वा । कथं, कथं करोत्विति ८७ ॥ संबन्धः ॥ | इत्यत्र चकारो द्रष्टव्यः । अन्यथा तच्छब्दोतिरिच्येत पूज्यतां एष इति शेषः ॥ ८८–९१ ॥ बलसमीरणं ॥ ९७-९८॥ आमतेजसा शरीरकान्त्या ॥ ९९ ॥ बलवर्धनं ॥ ९२ ॥ रावणाज्ञया त्वरितास्ते क्षिप्रं | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उपहारयन् संबन्धः ।। । ईष- उपाहारयन्निति ९३ रत्नकिरीटाख्याने षष्टितमः त्समुत्कटः पानेन ईषन्मदोत्कटः। मत्तः स्वभावेनो | युद्धकाण्डव्याख्याने न्मत्तवेत्यर्थः । कालान्तकयमोपमः प्रलयकाले ॥ काले | सर्गः ६० ॥ योन्तकः संहारको यमस्तत्सदृश इत्यर्थः ॥ ९४ ॥ ति० आरमतेजसाऽऽदित्यंस्पृशन्तमिवतत्सदृशमितियावत् । प्रायोदिनद्वयेनास्यजागरः ॥ ९९॥ इतिषष्टितमःसर्गः ॥ ६० ॥ [ पा० ] १ ङ. च• छ. झ. अ. ट. तेऽभिगम्य. २ ग. ङ.--ट. द्रक्ष्यसेतमिहागतं. ३ ग. छ. ज. झ. ट. परमहर्षितः। ४ घ. तेगा. ५ ङ. ट• त्वरितास्तत्र ६ ग-ट. मीभक्ष्यांश्च. ७ झ. ट. सहयूथपालैः८ ङ, छ. झ. ट. पतन्ति वा• रा. १०८