पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१३ ~*~*~*~*~*~*~*~*~*~ ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तयोरसि क्रुद्धो विससर्ज महाकपिः ॥ ४९ ॥ तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं चैलान्नीलं प्लवङ्गमम् ॥ ५० ॥ तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ५१ ॥ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूध्निं तूर्णमपातयत् ।। ५२ ॥ सा तेन कपिमुख्येन विमुक्ता महती शिला । विभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ५३ ॥ स गतासुर्गतश्रीको गतसत्वो गतेन्द्रियः ॥ पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ५४ ॥ प्रेभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ५५॥ हते प्रहस्ते नीलेन तदकम्प्यं महद्धलम् ॥ रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ५६ ।। न शेकुः समरे स्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ॥ ५७ ॥ हते तस्मिश्चमूषुर्ख्ये राक्षसास्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमाँस्थिताः । प्राप्तः शोकार्णवं तीव्र निःसंज्ञा इव तेऽभवन् ॥ ५८ ॥ ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्खकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥५८। प्रक्षिप्तसर्गः ॥ १ ॥ प्रहस्तवधश्रवणविषण्णैनरावणेनस्वस्थेवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छावणेनमन्दोदर्या सभमेत्यरावणंप्रतिश्रीर मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥ [ प्रेहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः ॥ राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥ काय शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः ॥ सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २॥ सोहं रिपुविनाशाय विजयस्याभिवृद्धये ।। खयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥ अद्य तद्वानरानीकं सरामं सहलक्ष्मणम् । प्रधक्ष्याम्येच बाणौधैः शुष्केन्धनमिवानलः॥ ४ ॥ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥ रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ५ ॥ परमोद्युक्तः ॥ ४८-४९ ॥। अचिन्त्य अचिन्तयित्वा | स्वकृतेन कर्मणा रिपुवधेन प्रहृष्टरूपः अतिशयेन ।। ५०-५४ ॥ प्रभिन्नशिरसः प्रभिन्नाच्छिरसः । | प्रहृष्टः। प्रशंसायां रूपपू। पञ्चम्य प्रहस्तवधः ॥५९॥ शरीरादपीति समुच्चयः । प्रस्रवणं निझीरः ॥५५-५६। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे विकीर्ण भनें ॥ ५७ ॥ हत इत्यादि सार्धश्लोकः । रनकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टपञ्चशः ध्यानमूकत्वं ध्यानेन वाग्व्यापारशन्यत्वं । तीव्र घोरं। | सर्गः ॥ ५८ ॥ शोकार्णवं प्राप्ताः शोकार्णवे मग्ना इत्यर्थः ।। ५८ ।। ति० ध्यानमूकत्वं ध्यानेनदेवताध्यानेनयेमूकाःमौनिनस्तेषांभावस्तत्त्वं । भयदुःखमोहैः किमधिवक्तृनाशक्रुवन्नित्यर्थः । तदेवाह- प्राप्ताइति । स० ध्यान मूकत्वं परावृत्यागमनेरावणशिक्षा। तत्रावस्थानेमरणमितिकिंकर्तव्यमितिचिन्तयामूकवंप्राप्तः ॥ ५८ ॥ इत्यष्टपञ्चाशःसरैः ॥ ५८ ॥ [ प० ] १ क, ख. ग. च. बलीनीलं. २ ग. तूर्णंनिपातयत्. ३ क.-च, ज• ट• विभिन्नशिरसः. ४ क. ख. ग. ङ.-~~ट= मागताः, ५ अत्राधिकत्वेनमुद्रितंसर्गद्वयं ज. पुस्तकएवदृश्यते.